श्रीमच्छङ्करदिग्विजयः- श्रीमदाचार्याणां शारदापीठवासवर्णनम् 224

 श्रीमदाचार्याणां शारदापीठवासवर्णनम् । २०५

स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेष

मन्दारोत्थैः कुसुमनिचौरब्रुवन्नर्चयन्तः ॥ १०४ ॥

भवानाद्यो देवः कवलितविषः कामदहनः

पुरारातिविश्वप्रभवलयहेतुस्त्रिनयनः ।

यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुना

तदायाहि स्वर्ग सपदि गिरिशास्मत्प्रियकृते ॥१५॥

उन्मीलद्विनयप्रधानसुमनोवाक्यावसाने महा-

देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति ।

शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तत्क्षणा-

दुशा शारदवारिदुग्धवरटाहकारहुंकारकृत् ॥ १०६ ॥

इन्द्रोपेन्द्रप्रधानैत्रिदशपरिवृद्वैः स्तूयमानः प्रसून-

दिव्यैरभ्यय॑मानः सरसिरुहभुवा दत्तहस्तावलम्बः ।

आरुह्योक्षाणमग्न्यं प्रकटितसुजटाजूटचन्द्रावतंसः

शृण्वन्नालोकशब्दं समुदितमृषिभिर्धाम नै प्रतस्थे ।

इति श्रीमाधवीये तच्छारदापीठवासगः ।

संक्षेपशङ्करजये सर्गः पूर्णोऽपि षोडशः॥

(आदितः श्लोकाः १८४३)

इति श्रीमद्विद्यारण्य विरचित:

श्रीमच्छङ्करदिग्विजयः समाप्तः


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152