श्रीमच्छङ्करदिग्विजयः- श्रीमदाचार्याणां शारदापीठवासवर्णनम् 224
श्रीमदाचार्याणां शारदापीठवासवर्णनम् । २०५
स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेष
मन्दारोत्थैः कुसुमनिचौरब्रुवन्नर्चयन्तः ॥ १०४ ॥
भवानाद्यो देवः कवलितविषः कामदहनः
पुरारातिविश्वप्रभवलयहेतुस्त्रिनयनः ।
यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुना
तदायाहि स्वर्ग सपदि गिरिशास्मत्प्रियकृते ॥१५॥
उन्मीलद्विनयप्रधानसुमनोवाक्यावसाने महा-
देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति ।
शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तत्क्षणा-
दुशा शारदवारिदुग्धवरटाहकारहुंकारकृत् ॥ १०६ ॥
इन्द्रोपेन्द्रप्रधानैत्रिदशपरिवृद्वैः स्तूयमानः प्रसून-
दिव्यैरभ्यय॑मानः सरसिरुहभुवा दत्तहस्तावलम्बः ।
आरुह्योक्षाणमग्न्यं प्रकटितसुजटाजूटचन्द्रावतंसः
शृण्वन्नालोकशब्दं समुदितमृषिभिर्धाम नै प्रतस्थे ।
इति श्रीमाधवीये तच्छारदापीठवासगः ।
संक्षेपशङ्करजये सर्गः पूर्णोऽपि षोडशः॥
(आदितः श्लोकाः १८४३)
इति श्रीमद्विद्यारण्य विरचित:
श्रीमच्छङ्करदिग्विजयः समाप्तः
Comments
Post a Comment