श्रीमच्छङ्करदिग्विजयः - दशम सर्ग: राजदेहप्रवेशादिकथनम् - 150
बहुतिथमभितोऽसौ नर्मदा नर्मदा तो
मगधभुवि निवासं निर्ममे निर्ममेन्द्रः॥ १०५ ॥
इति वशीकृतमण्डनपण्डितः प्रणतमत्करणत्रयदण्डितः ।
सकलसद्गुणमण्डलमण्डितः स निरगात्कृतदुर्मतखण्डितः ॥१०६ ॥
कुसुमितविविधपलाशभ्रमदलिकुलगीतमधुरस्वनम् ।
पश्यन् विपिनमयासीदाशा कीनाशपालितामेषः ॥ १०७॥
तत्र महाराष्ट्रमुखे देशे ग्रन्थान् प्रचारयन् प्राज्ञतमः |
शमितमतान्तरमानः शनकैः सनकोपमोऽगमच्छ्रीशैलम् ॥ १८ ॥
प्रफुल्लमल्लिकावनप्रसङ्गसङ्गतामित-
प्रकाण्डगन्धवन्धुरप्रवातधूतपादपम् ।
सदामदद्विपाधिपप्रहारशूरकेसरि
वजं भुजङ्गभूषणप्रियं स्वयम्भुकौशलम् ।। १०९ ।।
कलिकल्मषभङ्गायां सोऽनेराराच्चलत्तरङ्गायाम् ।
अधरीकृततुङ्गायां सस्नो पातालगामिगङ्गायाम् ॥ ११० ॥
नमन्मोहभङ्ग नभोलेहिशृङ्ग त्रुटत्पापपङ्गं रटत्पक्षिभृङ्गम् ।
समाश्लिष्टगङ्गं प्रहृष्टान्तरङ्ग तमारुह्य तुङ्गं ददर्शेशलिङ्गम् ॥ ११ ॥
प्रणमद्भववीजभर्जनं प्रणिपत्यामृतसम्पदार्जनम् ।
प्रमुमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥ ११२ ॥
तीररुहैः कृष्णायास्तीरेऽवात्सीतिरोहितोष्णायाः।
आवर्जिततृष्णाया आचार्येन्द्रो निरस्त कार्ष्यायाः ॥ ११३ ॥
तत्रातिचित्रपदमनभवान् पवित्रकीर्तिर्विचित्रसुचरित्रनिधिः सुधीन्द्रान् ।
अग्राहयत्कृतमसद्ग्रहनिग्रहार्थमज्यान समग्रसुगुणान् महदग्रयायी।
Comments
Post a Comment