श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 158

स्मृतवतस्तव पादसरोरुहं मृतवतः पुरुषस्य विमुक्तता।

तव कराभिहतोऽमृत भैरवो न हि स एष पुनर्भवमेष्यति ॥ ६३ ॥

दितिजसूनुममुं व्यसनार्दित सकृदरक्षदुदारगुणो भवान् ।

सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुरः ॥६४ ॥

सृजसि विश्वमिदं रजसाऽऽवृतः स्थितिविधौ श्रितसन्च उदायुधः ।

अवसि तद्धरणे तमसाऽऽवृतो हरसि देव तदा हरसंज्ञितः ॥ ६५ ।।

तव जनिर्न गुणास्तव तत्त्वतो जगदनुग्रहणाय भवादिकम् ।

तव पदं खलु वाचनसातिगं श्रुतिवचश्चकितं तव बोधकम् ॥ ६६ ॥

नरहरे तव नामपरिश्रवात् प्रमथगुह्यकदुष्टपिशाचकाः।

अपसरन्ति विभोऽसुरनायका न हि पुरःस्थितये प्रभवन्त्यपि ॥६७ ॥

त्वमेव सर्गस्थितिहेतुरस त्वमेव नेता नृहरेऽखिलस्य ।

त्वमेव चिन्त्यो हृदयेऽनवद्य त्वामेव चिन्मात्रमहं प्रपद्ये ॥६८॥

हतो वराको हि रुषं नियच्छ विश्वस्य भृमन्नभयं प्रयच्छ ।

एते हि देवाः शममर्थयन्ते निरीक्ष्य भीताः प्रतिखेदयन्ते ॥ ६९ ॥

द्रष्टुं न शक्या हि तवानुकम्पाहीनैजनैर्निनुतकोटिशंपाम् ।

मूर्तिं तदात्मन्नुपसंहरेमां पाहि त्रिलोकी समतीतसीमाम् ॥ ७ ॥

कल्पान्तोज्जृम्भमाणप्रमथतरिवृढप्रौढलालाटवति-

ज्वालालीढत्रिलोकीजनितचटचटाध्वानधिक्कारधुर्यः ।

मध्ये ब्रह्माण्डमाण्डोदरकुहरमनैकान्त्यदुःस्थामवस्था

स्त्यानस्त्यानो ममायं दलयतु दुरितं श्रीनृसिंहाट्टहासः ॥ ७॥

मध्ये व्यानद्ववातंधयगुणवलनाधानमन्थानभूभृत

मन्थेनोत्क्षोभिदुग्धोदधिलहरिमिथः स्फालनाचारपोरः।

Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152