श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 159
कल्पान्तोनिद्ररुद्रोच्चतरडमरुकध्वानबद्धाभ्यसूयो
घोषोऽयं कर्णधोरः क्षपयतु नृहरे रंहसां संहतिं नः ।। ७२॥
शुन्दानो मक्षु कल्पावधिममयसमुज्जृम्भदम्भोदगुम्भ-
स्फूर्जद्दम्भोलिसङ्घस्फुरदुरुटिताखर्वगर्वप्ररोहान् ।
क्रीडाकोडेन्द्रघोणासरमसविसरद्धोरघू?रवश्री-
गम्भीरस्तेऽट्टहासो हर हर नहरे रंहसांहांसि हन्यात् । ७३॥
एवं विशिष्टनुतिभिर्तृहरौ प्रशान्ते
स्वं भावमेत्य मुनिरेष बभूव शान्तः ।
स्खमानुभूतमिव शान्तमनाः स्मरंस्त-
मात्मानमान्मगुरवे प्रणति चकार ॥ ७४ !'
चारित्र्यमेतत्प्रयतत्रिसन्ध्यं भक्त्या पठेद्यः शृणुयादवन्ध्यम् ।
तीवोऽपमृत्यु प्रतिपद्य भक्ति स भुक्तभोगः समुपैति मुक्तिम् ॥ ७५ ॥
इति श्रीमाधवीये तदुप्रभैरवनिर्जयः।
संक्षेपशङ्करजये सर्ग एकादशोऽभवत् ॥
Comments
Post a Comment