श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 164
तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्यः प्रथितानुभावः ।
प्रवृत्तिशास्त्रैकरतः सुबुद्धिरास्ते क्रतून्मीलितकीर्तिवृन्दः॥ ४३ ॥
गावो हिरण्यं धरणी समग्रा सद्वान्धवा ज्ञातिजनाश्च तस्य ।
सन्त्येव कि तैर्न हि तोष एभिः पुत्रो यदस्याजनि मुग्धचेष्टः॥४४॥
न बक्ति किंचिन शृणोति किंचित् ध्यायन्निवास्ते किल मन्दचेष्टः ।
रूपेषु मारो महसा महस्वान् मुखेन चन्द्रः क्षमया महीसमः ।। ४५ ॥
ग्रहग्रहात् कि जडवद्विचेष्टते किं वा स्वभावादुत पूर्वकर्मणः ।
संचिन्तयस्तिष्ठति तत्पिताऽनिशं समागतान् प्रष्टुमना बहुश्रुतान् ॥
शिष्यैः प्रशिष्यवहुपुस्त भारः समागतं कञ्चन पूज्यपादम् ।
शुश्राव तं ग्राममानान्दतात्मा निनाय सूनुं निकटं स तस्य ॥४७॥
न शून्यहस्तो नृपमिष्टदैवं गुरुं च यायादिति शास्त्रवित् स्वयम् ।
सोपायनः प्राप गुरुं व्यशिश्रणत् फलं ननामास्य च पादपङ्कजे ॥
अनीनमतं च तदीयपादयो डाकृति भस्मनिगूढवह्विवत् ।
स नोदतिष्ठत् पतितः पदाम्बुजे प्रायः स्वजाड्यं प्रकटं विधित्सति ।।
उपात्तहस्तः शनकैरवाङ्मुखं तं देशिकेन्द्रः कृपयोदतिष्ठिपत् ।
उत्थापिते स्वे तनये पिताब्रवीत् वद प्रभो जाड्यममुष्य किकृतम् ।।
वर्षाण्यतीयुभगवन्नमुष्य पञ्चाष्ट जातस्य विनाऽववोधम् ।
नाध्यैष्ट वेदानलिखच्च नार्णानचीकरं चोपनयं कथञ्चित् ॥ ५१ ।।
क्रीडापरः कोशति बालवर्गस्तथापि न क्रीडितुमेष याति ।
बालाः शठा मुग्धमिमं निरीक्ष्य संताडयन्तेऽपि न रोषमेति ॥५२॥
भुङ्क्ते कदाचिन तु जातु भुङ्क्ते स्वेच्छाविहारी न करोति चोक्तम् ।
तथापि रुष्टेन न ताब्यतेऽयं स्वकर्मणा वर्धत एव निस्यम् ॥ ५३ ॥
Comments
Post a Comment