श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 171

यद्वाऽयमानन्दगिरिर्यदुग्रतपःप्रसन्ना परमेष्ठिपनी ।

भवत्प्रबन्धेषु यथाभिसन्धि ब्याख्यानसामर्थ्यवरं दिदेश ॥ २० ॥

कर्मे कतानमतिरेप कथं गुरो ते विश्वासपात्रमवपद्यत विश्वरूपः ।

भाष्यस्य पनपद एव करोतु टीकामित्यूचिरे रहसि योगिवरं विधेयाः॥

अवान्तरेऽभ्यर्णगतः स तूर्णं सनन्दनो वाक्यमुदाजहार ।

आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥ २२ ॥

यतः करस्थामलकाविशेष जानाति सिद्धान्तमसावशेषम् ।

अतो ह्यमुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ॥ २३ ॥

वाणी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकुदावभाषे।

नैपुण्यमन्यादृशमस्य किन्तु समाहितत्वान्न बहिःप्रवृत्तिः ॥ २४॥

अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि ।

न चोपनीतोऽपि गुरोः सकाशादध्यैष्ट वेदान् परमार्थनिष्ठः ॥ २५ ॥

बालै चिक्रीड न चानमैच्छन्न चारुवाचं ह्यवदत् कदापि ।

निश्वित्य भूतोपहत तमेनमानिन्यिरेऽस्मन्निकटं कदाचित् ।। २६ ।।

अस्मानवेक्ष्यैव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् ।

इमामपूर्वां प्रकृति विलोक्य वितिष्मिये तत्र जनः समेतः ॥ २७ ।।

कस्त्वं शिशो कस्य सुतः कुतो वेत्यस्माभिराचष्ट किलैष पृष्टः।

आत्मानमानन्दघनस्वरूपं विस्मापयन् वृत्तमयैर्वचोभिः ॥२८॥

तदा कदाऽप्यश्रुतिगोचरं तदाकर्ण्य वाग्वैभवमात्मजस्य ।

पिता प्रपद्यास्य परं प्रहले सप्रश्रयां वाचमुवाच विज्ञः ॥ २९ ॥

जनैर्जडत्वेन विनिश्चितोऽपि ब्रवीति यथेष परात्मतत्वम् ।

प्रज्ञोन्नतानामपि दुर्विभाव्यं किं वर्ण्यतेऽईन् भवतः प्रभावः ॥३॥

Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213