श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 176

सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टीका व्यधितेरितः पराम् ।

यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥७॥

व्यासर्षिमूत्रनिचयस्य विवेचनाय टीकाभिधं विजयडिण्डिममात्मकीतः ।

निर्माय पद्मचरणो निरवद्ययुक्तिदृब्धं प्रबन्धमकरोद्गुरुदक्षिणां सः॥

आलोचयनथ तदा नु गति ग्रहांगामूचे सुरेश्वरसमाहमुपह्वरे सः ।

पञ्चैव वत्स चरणाः प्रथिता इह स्युस्तत्रापि सूत्रयुगलद्वयमेव भूना ॥

प्रारब्धकर्मपरिपाकवशात् पुनस्त्वं

वाचस्पतित्वमधिगम्य वसुन्धरायाम् ।

भव्या विधास्यसितमां मम भाष्यटीका-

माभूतसंलयमधिक्षिति सा च जीयात् ।। ७३ ।।

इत्येवमुक्त्वाऽथ यतीश्वरोऽसावानन्दगिर्यादिमुनीन् स इत्वा ।

कुरुष्वमद्वैतपरानिवन्धानित्यन्वशानिर्ममसार्वभौमः ॥ ७४ ।।

ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दो-

रानन्दाचलमुखरा महानुभावाः।

आतेनुर्जगति यथास्वमात्मतत्त्वा-

म्भोजानि विशदतरान् बहूनिवन्धान् ॥ ७५ ॥

इति श्रीमाधवीये तद्वार्तिकान्तप्रवर्तनः ।

संक्षेपशङ्करजये पूर्णः सर्गस्त्रयोदशः ।।



Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152