श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 177

॥ चतुर्दशः सर्गः ॥

(पक्षपादतीर्थयात्रावर्णनम् )

अथाजपात कर्तुमनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् ।

देया गुरो मे भगवन्ननुज्ञा देशान् दिदृक्षे बहुतीर्थयुक्तान् ।। १॥

स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयाधिजलं च तीर्थम् ।

गुरूपदेशेन यदात्मदृष्टिः सैव प्रशस्ताऽखिलदेवदृष्टिः ॥२॥

शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे ।

विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥३॥

द्विधा हि संन्यास उदीरितोऽयं विबुद्धतच्चस्य च तद्बुभुत्सोः ।

तत्चपदार्थैक्य उदीरितोऽयं यत्नात्वमर्थः परिशोधनीयः ॥ ४ ॥

संभाव्यते क च जलं क्व च नास्ति पाथ:

शय्यास्थलं क्वचिदिहास्ति न च क चास्ति ।

शय्यास्थलीजलनिरीक्षणसक्तचेताः

पान्थो न शर्म लभते कलुषीकृतात्मा ॥५॥

ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः।

स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुञ्चतीमम् ॥६॥

स्नानं प्रभाते न च देवतार्चनं क चक्तशौचं क वा समाधयः ।

क्क चाशनं कुत्र च मित्रसङ्गतिः पान्थो न शाकं लभते क्षुधातुरः ।।

नास्त्युत्तरं गुरुगिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान् गुरुपार्श्ववासः।

श्रेयानिति प्रथमसंयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213