श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 177
॥ चतुर्दशः सर्गः ॥
(पक्षपादतीर्थयात्रावर्णनम् )
अथाजपात कर्तुमनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् ।
देया गुरो मे भगवन्ननुज्ञा देशान् दिदृक्षे बहुतीर्थयुक्तान् ।। १॥
स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयाधिजलं च तीर्थम् ।
गुरूपदेशेन यदात्मदृष्टिः सैव प्रशस्ताऽखिलदेवदृष्टिः ॥२॥
शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे ।
विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥३॥
द्विधा हि संन्यास उदीरितोऽयं विबुद्धतच्चस्य च तद्बुभुत्सोः ।
तत्चपदार्थैक्य उदीरितोऽयं यत्नात्वमर्थः परिशोधनीयः ॥ ४ ॥
संभाव्यते क च जलं क्व च नास्ति पाथ:
शय्यास्थलं क्वचिदिहास्ति न च क चास्ति ।
शय्यास्थलीजलनिरीक्षणसक्तचेताः
पान्थो न शर्म लभते कलुषीकृतात्मा ॥५॥
ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः।
स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुञ्चतीमम् ॥६॥
स्नानं प्रभाते न च देवतार्चनं क चक्तशौचं क वा समाधयः ।
क्क चाशनं कुत्र च मित्रसङ्गतिः पान्थो न शाकं लभते क्षुधातुरः ।।
नास्त्युत्तरं गुरुगिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान् गुरुपार्श्ववासः।
श्रेयानिति प्रथमसंयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे॥
Comments
Post a Comment