श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 178
सर्वत्र न कापि जलं समस्ति पश्चात् पुरस्तादथवा विदिक्षु ।
मार्गो हि विद्येत न सुव्यवस्थः सुखेन पुण्यं व नु लभ्यतेऽधुना ॥९॥
जन्मान्तरार्जितमपं फलदानहेतो-
याध्यात्मना जनिमुपैति न नो विवादः।
साधारणादिह च वा परदेशके वा
कर्म भुक्तमनुवर्तत एव जन्तुम् ॥ १० ॥
इह स्थितं वा परतः स्थितं वा कालो न मुञ्चत् समयागतश्चेत् ।
तद्देशगत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥ ११ ॥
मन्वादयो मुनिवराः खलु धर्मशास्त्रे धर्मादि संकुचितमाहुरतिप्रवृद्धम्।
देशाद्यवेक्ष्य न तु तत्सरणि गतानां शौचायतिक्रमकृतं प्रभवेदधं नः ॥
देवेऽनुकूले विपिनं गतो वा समाप्नुयाद्वाञ्छितमन्नमेषः ।
हियेत नश्येदपि वा पुररस्थं तस्मिन् प्रतीपे तत एव सर्वम् ॥ १३ ॥
गृहं परित्यज्य विदेशगो ना सुखं समागच्छति तीर्थदृश्वा ।
गृहं गतो याति मृति पुरस्तात्तदागमादल च किं निमित्तम् ॥१४॥
देशे कालेऽवस्थित तद्विमुकं ब्रह्मानन्दं पश्यतां तत्र तत्र ।
चित्तैकाग्रये विद्यमाने समाधिः सर्ववासौ दुर्लभो नेति मन्ये ॥ १५ ॥
सत्तीर्थसेवा मनसः प्रसादिनी देशस वीक्षा मनसः कुतूहलम् ।
क्षिणोल्यनर्थात् सुजनेन सङ्गमस्तस्मात्र कस्मै भ्रमणं विरोचते ॥१६॥
अटाट्यमानोऽपि विदेशसङ्गति लभेत विद्वान विदुषाऽभिसङ्गतिम् ।
बुधो बुधानां खलु मित्रमीरितं खलेन मैत्री न चिराय तिष्ठति ॥
समीपवासोऽयमुदीरितो गुरोविदेशगो यद् हृदयेन धारयेत् ।
'समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद् इदि ।
Comments
Post a Comment