श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 192
अत्रान्तरेऽन्यनिजक्चरद्भिः स्वैस्तीर्थयात्रा दयितैः सतीभ्यः ।
अर्थादुपेत्याऽऽश्रमतः कनिष्ट्रातः सखेदैः स मुनिः समेक्षि ॥१४३ ॥
दृष्ट्वा पद्माधि क्रमाते प्रणेमुस्तत्पादाम्भोजीयरेणून दधानाः ।
अन्योन्यं द्रागाददुस्ते ददुश्चानेकानेहोयोगजैक्यान्नमांसि ।। १४४ ॥
वाणीनिर्जितपन्नगेश्वरगुरुपाचेतसा वेतसा
बिभ्राणा चरणं मुनेविरचितम्यापल्लवं पल्लवम् ।
धुन्वन्तं प्रभया निवारिततमाशङ्कापदं कामदं
रेजेन्तेवसतां समष्टिरसुहृत्तत्याहितात्याहिता ॥ १४५ ॥
शुश्राव साऽन्तेक्सतां समष्टिः स्वदेशकीयां सुखदा सुवार्ताम् ।
अर्थात् समीपागततः कुतश्चिद् द्विजेन्द्रतः सेवितसर्वतीर्थात् ॥ १४६॥
अथ गुरुवरमनवेक्ष्य नितान्तं व्यथितहृदो मुनिवर्यविनेयाः।
कथमपि विदिततदीयसुवार्ताः समधिगताः किल केरलदेशान् ।।
अत्रान्तरे यतिपतिः प्रसुवोऽन्त्यकृत्यां
कृत्वा स्वधर्मपरिपालनसक्तचित्तः।
आकाशलविवरकेरमहीरुहेषु
श्रीकेरलेषु मुनिरास्त चरन् विरक्तः ॥ १४८॥
विचरनथ केरलेषु विष्वनिजशिष्यागमनं निरीक्ष्य मौनी।
विनयेन महासुरालयेश विनमनस्तुत निस्तुलानुभावः ॥ १४९ ॥
सदसत्त्वविमुक्तया प्रकृत्या चिदचिद्रूपमिदं जगद्विचित्रम् ।
कुरुषे जगदीश लीलया त्वं परिपूर्णस्य न हि प्रयोजनेच्छा ॥१५॥
रजसा सुजसीश सचवृत्तिखिजगद्रक्षसि तामसः क्षिणोषि ।
बहुधा परिकीर्त्यसें च स त्वं विधिवैकुण्ठशिवाभिधामिरेकः ॥१५॥
Comments
Post a Comment