श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 193

विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभावः ।

बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेकः ॥१५२॥

इति देवमभिष्टुवन् विशिष्टस्तुतितोऽसौ सुरसमसंनिविष्टः ।

चिरकालवियोगदीनचित्तैः शिरसा शिष्यगणैरथो ववन्दे ॥१५३॥

गुरुणा कुशलानुयोगपूर्व सदयं शिष्यगणेषु सान्त्वितेषु ।

अतिदीनमनाः शनैरवादीदजहद्गद्गदिकं स पद्मपादः ॥ १५४ ॥

भगवन्नभिगम्य रङ्गनाथं पथि पद्माक्षमहं निवर्तमानः ।

बहुधाविहितानुनीतिनीतो बत पूर्वाश्रममातुलेन गैहम् ॥ १५५ ॥

अहमस्य पुरो भिदावदेन्दोरपि पूर्वाश्रमवासनानुबन्धात् ।

अपठं भवदीयभाष्यटीकामजयं यात्र कृतानुयोगमेनम् ॥ १५६ ॥

दग्धमुद्रमुखमुद्रणमन्त्रैर्ध्वस्ततर्कगुरुकापिलतन्त्रैः ।

चर्मितो निगमसारसुधाक्तैर्मातुलं तमजयं तव सूक्तैः ।। १५७॥

खड्गाखड्गिविहारकल्पितरुजं काणादसेनामुखे

शस्त्राशस्विकृतं श्रमं च विषमं पश्यत्यदानां पदे ।

यष्टीयष्टिभवं च कापिलबले खेदं मुने तावकैः

सूक्तैौक्तिकवंशमौक्तिकमयै पद्यते वर्मितः ॥१५८ ॥

अथ गूढहदो यथापुरं मामभिनन्द्याऽऽहितसक्रियस्य तस्य ।

अधिसम निधाय भाष्यटीकामहमस्याऽऽयमशङ्कितो निशायाम् ।।

युगपर्ययनृत्यदुग्रफालज्वलनज्वालकरालकीलजालः ।

दहनोऽधिनिशीथमस्य धाम्ना बत टीकामपि भस्मसादकार्षीत् ॥ १६॥

अदहत्स्वगृहं स्वयं हताशो विमतग्रन्थमसौ विदग्धुकामः ।

मतिमान्धकरं गरं च भक्षे ब्यधितास्येति बिजृम्भते स्म बार्ता ॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213