श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 193
विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभावः ।
बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेकः ॥१५२॥
इति देवमभिष्टुवन् विशिष्टस्तुतितोऽसौ सुरसमसंनिविष्टः ।
चिरकालवियोगदीनचित्तैः शिरसा शिष्यगणैरथो ववन्दे ॥१५३॥
गुरुणा कुशलानुयोगपूर्व सदयं शिष्यगणेषु सान्त्वितेषु ।
अतिदीनमनाः शनैरवादीदजहद्गद्गदिकं स पद्मपादः ॥ १५४ ॥
भगवन्नभिगम्य रङ्गनाथं पथि पद्माक्षमहं निवर्तमानः ।
बहुधाविहितानुनीतिनीतो बत पूर्वाश्रममातुलेन गैहम् ॥ १५५ ॥
अहमस्य पुरो भिदावदेन्दोरपि पूर्वाश्रमवासनानुबन्धात् ।
अपठं भवदीयभाष्यटीकामजयं यात्र कृतानुयोगमेनम् ॥ १५६ ॥
दग्धमुद्रमुखमुद्रणमन्त्रैर्ध्वस्ततर्कगुरुकापिलतन्त्रैः ।
चर्मितो निगमसारसुधाक्तैर्मातुलं तमजयं तव सूक्तैः ।। १५७॥
खड्गाखड्गिविहारकल्पितरुजं काणादसेनामुखे
शस्त्राशस्विकृतं श्रमं च विषमं पश्यत्यदानां पदे ।
यष्टीयष्टिभवं च कापिलबले खेदं मुने तावकैः
सूक्तैौक्तिकवंशमौक्तिकमयै पद्यते वर्मितः ॥१५८ ॥
अथ गूढहदो यथापुरं मामभिनन्द्याऽऽहितसक्रियस्य तस्य ।
अधिसम निधाय भाष्यटीकामहमस्याऽऽयमशङ्कितो निशायाम् ।।
युगपर्ययनृत्यदुग्रफालज्वलनज्वालकरालकीलजालः ।
दहनोऽधिनिशीथमस्य धाम्ना बत टीकामपि भस्मसादकार्षीत् ॥ १६॥
अदहत्स्वगृहं स्वयं हताशो विमतग्रन्थमसौ विदग्धुकामः ।
मतिमान्धकरं गरं च भक्षे ब्यधितास्येति बिजृम्भते स्म बार्ता ॥
Comments
Post a Comment