श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 194

 १५] पद्मपादतीर्थयात्रावर्णनम् ।

अधुना धिषणा यथापुरं नो विधिना नाविशयं प्रसादमेति ।

विषमा पुनरीदृशी दशा नः किा युक्ता भवदविकिङ्कराणाम् ॥

गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृतिः।

निरतिशयोज्ज्वलयुक्तियुता सा पथि किल हा विननाश कृशानौ॥

प्रयतेऽहं पुनरेव यदा तां प्रविधातुं बहुधाकृतयत्नः ।

न यथापूर्वमुपक्रमते ताः पटुयुक्तीभगवन्मम बुद्धिः॥१६४ ॥

कृपापारावारं तव चरणकोणाग्रशरणं

गता दीना दूनाः कति कति न सर्वेश्वरपदम् ।

गुरो मन्तु न्तुः क इव मम पापांश इति चेत्

मृषा मा भाषिष्ठाः पदकमलचिन्तावधिरसौ॥१६५ ॥

इति वादिनमेनमार्यपादः करुणापूरकरम्भितान्तरङ्गः ।

अमृताधिसखेरपास्त मोहर्वचनैः सान्त्वयति स्म वल्गुबन्धैः ॥ १६६ ॥

विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एषः।

विदितः प्रथम मयाऽयमर्थः कायतश्चाङ्ग सुरेशदेशिकाय ॥१६॥

पूर्व शृङ्गमाधरे मत्सनीपे प्रेम्णा याऽसौ वाचिता पञ्चपादी।

सा मे चित्चान्नापयात्यद्य शोको याताच्छीघ्रं तां लिखेत्याख्यदायः॥

आश्वास्येत्थं जलजचरगं भाष्यकृत्पञ्चपादीम्

आचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूर्ध्या ।

नैतचित्रं परमपुरुषेऽव्याहतज्ञानशक्तो

तस्मिन् मूले त्रिभुवनगुरौ सर्वविद्याप्रवृत्तेः ।। १६९ ॥

प्रसभं स विलिख्य पञ्चपादी परमानन्दभरेण पमपादः ।

उदतिष्ठदतिष्ठदभ्यरोदीव पुनरुद्गायति त म नृत्यति स्म ॥१७॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213