श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 195
कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशेखराख्यः ।
मुनिवर्यममुं मुदं वितेने निजकोटीरनिघृष्टपनखाग्यः ॥ ११ ॥
प्रथते किम नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्तः।
अयमुत्तरमाददे प्रमादादनले साऽऽहुतितामुपागतेति ॥ १७२ ॥
मुखतः पठितां मुनीन्दुना तां विलिखनेष विसिष्मियेऽथ भूपः ।
वद किं करवाणि किकरोऽहं वरदेति प्रणमन् व्यजिज्ञपच ।। १७३ ॥
नृप कालटिनामकाग्रहारा द्विजकर्मानधिकारिणोऽध शप्ताः ।
भवताऽपि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥१७॥
पमानौ प्रतिपद्य नष्टविवृति तुष्टे पुनः केरल-
'क्ष्मापालो यतिसार्वभौमसविधं प्राप्य प्रणम्याञ्जसा ।
लब्ध्वा तस मुखात् स्वनाटकवराण्यानन्दपाथोनिधी
मजस्तत्पदपवयुग्ममनिशं ध्यायन् प्रतस्थे पुरीम् ॥ १७५ ।।
इति श्रीमाधवीये तत्तीर्थयात्राटनार्थकः ।
संक्षेपशङ्करजये सर्गोऽजनि चतुर्दशः॥
(मादितः श्लोकाः-१५६२)
Comments
Post a Comment