श्रीमच्छङ्करदिग्विजयः -पञ्चदशः सर्गः - आचार्यकृतदिग्विजयवर्णनम् - 196
॥ पञ्चदशः सर्गः॥
(आचार्यकृतदिग्विजयवर्णनम्)
अथ शिष्यवरैर्युतः सहस्रैरनुयातः स सुधन्वना च राज्ञा ।
ककुभो विजिगीषुरेष सर्वाः प्रथम सेतुमुदारधीः प्रतस्थे ॥१॥
१॥
अभवत् किल तस्य तत्र शाक्तैर्गिरिजार्चाकपटान्मधुप्रसक्तैः ।
निकटस्थवितीर्णभूरिमोदस्फुटरिङ्कपटुयुक्तिमान् विवादः ॥२॥
स हि युक्तिभरैविधाय शाक्तान् प्रतिवाग्व्याहरणेऽपि तानशक्तान् ।
द्विजजातिबहिष्कृताननार्यानकरोल्लोकहिताय कर्मसेतुम् ॥३॥
अभिपूज्य स तत्र रामनाथं सह पाण्डयैः स्वक्शे विधाय चोलान् ।
द्रविडांश्च ततो जगाम काञ्ची नगरी हस्तिगिरेनितम्बकाञ्चीम् ॥४॥
सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् ।
अपवार्य च तान्त्रिकानतानीद्भगवत्याः श्रुतिसम्मतां सपर्याम् ।। ५॥
निजपादसरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्ध्रान् ।
अनुगृह्य स वेङ्कटाचलेशं प्रणिपत्याऽऽप विदर्भराजधानीम् ।। ६ ।।
अभिगम्य स भक्तिपूर्वमस्यां कृतपूजः क्रथकैशिकेश्वरेण ।
निजशिष्यनिरस्त दुष्टबुद्धीन् व्यदधाज्ञैरवतन्त्रसावलम्बान् ।। ७॥
अभिवाद्य विदर्भराडवादीदथ कर्णाटवसुन्धरामियासुम् ।
भगवन् बहुभिः कपालिजालैः स हि देशो भवतामगम्यरूपः ॥ ८॥
न हि ते भगवद्यशः सहन्ते निहिताः श्रुतिषु ब्रवीम्यतोऽहम् ।
अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥ ९ ॥
Comments
Post a Comment