श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 205

न हि मानकथा विशिष्टगत्वे भवदापादित ईक्षते तथा हि ।

अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्नुते तथा चेत् । ९८ ।।

अनुभव्यहमित्यपि प्रतीवेरनुभूतेश्च विशिष्टनिष्ठता स्यात् ।

अजडानुभवस्य नो जडान्तःकरणस्थत्वमितीष्टता न तस्याः ॥ ९९ ॥

ननु दाहकता यथाग्नियोगादधिकूटं व्यपदिश्यते तथैव ।

अनुभूतिमदात्मयोगतोऽन्तःकरणे सा व्यपदिश्यतेऽनुभूतिः ॥ १०॥

इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचारः ।

न पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिर्हि ।। १०१ ॥

न च तत्र हि बाधकस्य सत्त्वादियमस्तु प्रकृतेर्न साऽस्त्यबाधात् ।

इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेश्च बाधकत्वात् ॥१२॥

अधिसुप्त्यपि चित्तवति तत्स्यायदि चाज्ञानमिदं हृदाश्रितं स्यात् ।

तदिहास्ति न मानमुक्तरीत्या प्रकृतेदृश्यविशिष्टनिष्ठतायाम् ।। १०३ ॥

ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिद्गतेति ।

प्रतिबन्धकशून्यता तु सुप्तेः परमात्मैक्यगतेः सतेति वाक्यात् ॥

न च तत्र च तत्स्थितिप्रतीतिः सति संपद्य विदुन हीति वाक्यात् ।

श्रुतिगीस्तदधिक्षिपत्यभावप्रतिपत्तेन च नियोज नेति ॥ १५ ॥

किमु नित्यमनित्यमेव चैतत्प्रथमो नेह समस्ति युक्त्यभावात् ।

अनिवर्तकसत्वतोऽस्य नान्त्यो न हि भिन्द्यादविरोधि चित्प्रकाशः॥

न च तच्छमयेजडप्रकाशोऽप्यविरोधात् सुतरां जडत्वतोऽस्य ।

तदिहाप्रतिबन्धकत्वमस्य प्रभवेत् किंत्विह तद्भमाग्रहादि ॥१०७ ॥

इति चेदिदमीरय भ्रमः को मनुजोऽहं विति शेमुषीति चेन्न ।

अतिविस्मृतिशीलता तवाहो गदितुः सर्वपदार्थसङ्करस्य ॥ १०८ ॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213