श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 207

तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य ।

तदवोधलये लयोपपत्तेजमतः सत्यतया छिदा न ते सात् ॥ १२० ॥

ननु पञ्चसु तु स्थलेषु भेदो ह्यभिदा नो तु शरीरदेहिनोस्ते ।

प्रथितस्थलपञ्चकेतरत्वात् फलिता यत्र तथा च हेत्वसिद्धिः ॥ १२१ ॥

इति चेत्र विकल्पनासहत्वान्मिलितानां मिदभेदतन्त्रता किम् ।

उत वा पृथगेव तत्र नाऽधो मिलिताः पञ्च न हि क्वचिद्यतः स्युः।।

चरमोऽपि न युज्यते तदाऽङ्गाङ्गिकमावस्य च तन्त्रता न किं स्यात् ।

न च योजकगौरवं च दोषः प्रकृते तस्य तवापि संमतत्वात् ॥ १२३ ॥

अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत् ।

अपि सोऽत्र न दुर्लभश्चिदात्माङ्गकयोः कारणकार्यभावभावात् ॥१२॥

न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति ।

तदभेदत एव सर्वकस्याप्युपपत्ते रिह जीवकार्यतायाः ।। १२५ ॥

तदसिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् ।

भ्रमधीप्रमितित्ववेदिनोऽतस्तव न भ्रान्तिपदार्थ एव सिध्येत् ।। १२६ ॥

अपि च भ्रम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ ।

परिणाम इहाऽऽदिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥१२७॥

ननु रक्ततमप्रसूनयोगात् स्फटिके संस्फुरणं यथाऽरुणिनः ।

भ्रमसंयुतचिचयोगतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥१२८॥

इति चेदयमीरयाऽऽत्मयोगो भ्रमणस्याऽश्रित एष सनसन्वा ।

प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शून्यकत्वात् ॥ १२९ ॥

चरमोऽपि न युज्यतेऽपरोक्षप्रथनस्यानुपपद्यमानतायाः।

परिणामविशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्षः ॥ १३ ॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152