श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 211
शास्त्राम्नायविनिन्दकेन कुधिया कूटप्रवादाग्रहा-
निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ॥ १६३ ॥
शाक्तैः पाशुपतैरपि क्षपणकैः कापालिकैर्वैष्णवै-
रप्यन्यैरखिलैः खिलं खलु खलैर्दुर्वादिभिर्वैदिकम् ।
मार्ग रक्षितुमुग्रवादिविजयं नो मानहेतोय॑धा-
सर्वज्ञो न यतोऽस्य संभवति सम्मानग्रहग्रस्तता ।। १६४ ॥
दिष्टे पङ्कजविष्टरेण जगतामायेन तत्सनुभि-
निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाधैरपि ।
श्रीताद्वैतपणे परात्मभिदुरान् दुर्वादिनः कण्टकान्
प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णताम् ॥१६५ ॥
शान्तिर्दान्तिविरागते छुपरतिः क्षान्तिः परैकाग्रता
श्रद्धेति प्रथिताभिरेधिततनौ षड्वक्त्रवन्मातृभिः ।
भिक्षुक्षोणिपतौ पिचण्डिलतरोचण्डातिकण्डूच्चल-
स्पाखण्डासुरखण्डनैकरसिके बाधा बुधानां कुतः ॥ १६६ ।।
यत्राऽऽरम्भजकाहलाकलकलोकायतो विदुतः
काणाः काणभुजास्तु सैन्यरजसा सांख्यधृताऽसांख्यधीः
युद्ध्वा तेषु पलायितेषु सहसा योगा सहैवाद्रवन्
को वा वादिभटः पदुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥ १६७ ॥
उच्चण्डे पणबन्धवन्धुरतरे वाचंयमक्ष्मापतेः
पूर्व मण्डनखण्डने समुदभूद्यो डिण्डिमाडम्बरः ।
जाताः शब्दपरम्परास्तत इमाः पाखण्डदुदिनां
अद्य भोवतटाटवीषु दधते दावानलज्वालताम् ।। १६८ ।।
Comments
Post a Comment