श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 212
बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्विद्रुतः
कोणे द्राकणभुरव्यलीयत तमःस्तोमावृतो गौतमः।
भग्नोऽसौ कपिलः पलायत ततः पातञ्जलाश्चाञ्जलि
चक्रुस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ॥ १६९ ॥
हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाः
काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः।
गाढं बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः
सेवन्ते तं विचित्रा यतिधरणिपतेः शूरता वा दया वा॥१७॥
शान्त्यावर्णववाडवानलशिखा सत्याभ्रवात्या दया-
ज्योत्स्नादर्शनिशाऽथ शान्तिनलिनीराकाशशाङ्कद्युतिः ।
आस्तिक्यद्रुमदावपावकनवज्वालावली सत्कथा-
हंसीपावृडखण्डि दण्डिपतिना पाखण्डवाश्मण्डली ॥ १७१ ॥
अद्वैतामृतवर्षिभिः परगुरुव्याहारधाराधरैः
कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कृत्ततापत्रयैः ।
दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसंपादितं
शान्त संप्रति खण्डिताच निविडाः पाखण्डचण्डातपाः॥
शान्तानां सुभटाः कपालिकपतद्राहग्रहव्यापूताः
काणादप्रतिहारिणः क्षपणकक्षोणीशर्यतालिकाः ।
सामन्ताश्च दिगम्बरान्वयभुवश्चार्वाकवंशांकुरा
नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ।।
- इति सकलदिशासु द्वैतवार्ता निवृत्ती
स्वयमथ परितस्तारायमद्वैतवम॑ ।।
5.25
Comments
Post a Comment