श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 219

करटतटान्तवान्तमदसौरभसारभर-

स्खलदलिसंभ्रमत्कलभकुम्भविजृम्भिवलः ।

हरिरिव जम्बुकानमददन्तगजान्कुजना-

नपि खलु नाक्षिगोचरयतीह यतिहतकान् ॥ ६१॥

संश्रावयन्नध्वनि देशिकेन्द्रः श्रीदक्षिणद्वारभुवं प्रपेदे ।

कवाटसुद्धाटय निवेष्टुकामं ससंभ्रमं वादिगणो न्यरौत्सीत् ॥ ६ ॥

अथाब्रवीद्वादिगणः स देशिकं किमर्थमेवं बहुसंभ्रमक्रिया।

यदत्र कार्य तदुदीर्यतां शनैर्न संभ्रमः कर्तुमलं तदीप्सितम् ॥ ६३ ॥

यः कश्चिदेत्येतु परीक्षितुं चेद्वेदाखिलं नाविदितं ममाणु।

इत्थं भवान्वक्ति समुन्नतीच्छो दत्त्वा परीक्षां व्रज देवतालयम् ॥ ६४ ॥

षड्भाववादी कणभुमतस्थः पप्रच्छ तं स्वीयरहस्यमेकम् ।

संयोगभाजः परमाणुयुग्माजातं हि सूक्ष्मं द्वयणुकं मतं नः ॥६५॥

यत्स्यादणुत्वं तदुपाश्रित तजायेत कस्माद्वद सर्वविच्चेत् ।

नो चेत्प्रभुत्वं तव वक्तुमेते सर्वज्ञभाषां विहितां ब्रुवन्ति ॥ ६६ ॥

या द्वित्वसंख्या परमाणुनिष्ठा सा कारणं तस्य गतस्य मात्रा।

इतीरिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ॥ ६७ ॥

तत्रापि नैयायिक आत्तगर्वः कणादपक्षाचरणाक्षपक्षे ।

मुक्तेविशेष वद सर्वविचेन्नो चेत्प्रतिज्ञा त्यज सर्वविवे ॥ ६८ ॥

मत्यन्तनाशे गुणसङ्गतेर्या स्थितिर्नभोवत्कणभक्षपक्षे ।

मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसंवित्सहिता विमुक्तिः ॥ ६९ ॥

पदार्थभेदः स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता ।

स ईशवादीत्युदितेऽभिनन्ध नैयायिकोऽपि न्यवृतनिरोधात् ।। ७० ॥

Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152