श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम्- 222

 श्रीमदाचार्याणां शारदापीठवासवर्णनम् ।

२०३

काणादः क प्रणादः क च कपिलवचः क्वाक्षिपादप्रवादः

क्वाप्यन्धा योगकन्था व गुरुरतिलघुः क्वापि भाट्टप्रघट्टम् ।

क्क द्वैताद्वैतवार्ता क्षपणकविवृतिः क्वापि पाषण्डषण्ड-

ध्वान्तध्वंसकभानोर्जयति यतिपतेः शारदापीठवासे ॥ ९ ॥

ततो दिविषदध्वनि त्वरितमध्यराशावली-

धुरन्धरसमीरितत्रिदशपाणिकोणाहतः ।

अरुन्द्ध हरिदन्तरं स्वरभरैभ्रमत्सिन्धुभि-

घनाघनघनारवप्रथमबन्धुभिर्दुन्दुभिः ॥ ९१॥

कचभरवहनं पुलोमजायाः कतिचिदहान्यपगर्भकं यथा स्यात् ।

गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्षतोऽभ्यवर्षन् ।।

इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं

निजमतगुरुतायै नो पुनर्मानहेतोः ।

कतिचन विनिवेश्याथर्ण्यशृङ्गाश्रमादौ

मुनिरथ बदरी स प्राप कैश्चित्स्वशिष्यैः ॥ ९३ ॥

दिवसान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्रनिष्ठितेभ्यः ।

कृपयोपदिशन् स्वसूत्रभाष्यं विजितत्याजितसर्वदर्शनेभ्यः ॥ ९४ ॥

नितरां यतिराडुडुराजकरप्रकरप्रचुरप्रसरस्वयशाः ।

स्वमयं समयं गमयन् रमयन् हृदयं सदयं सुधियां शुशुमे ॥ ९५ ॥

एवंप्रकारैः कलिकल्मषनैः शिवावतारस्य शुभैश्चरित्रैः।

द्वात्रिंशदत्युज्ज्लकीर्तिराशेः समा व्यतीयुः किल शङ्करस्य ।। ९६ ॥

भाष्यं भूष्यं सुशीलरकलि कलिमलध्वंसि कैवल्यमूल्य

हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डिता पण्डितानाम् ।


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152