श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 221

शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं त समपूजयस्ते ।

द्वारं समुद्घाख्य ददुश्च मार्ग ततो विवेशान्तरभूमिभागम् ॥ ८१॥

पाणौ सनन्दनमसाववलम्ब्य विद्याभद्रासनं तदवरोढुमनाश्चचाल ।

अत्रान्तरे विधिवधूर्विबुधाग्रगण्यमाचार्यशङ्करमवोचदनङ्गवाचा ॥ ८२॥

सर्वज्ञता तेऽस्ति पुरैव यस्मात्सर्वत्र पक्षि भवान्न चेत्ते ।

विरिश्चिरूपान्तरविश्वरूपः शिष्यः कथं स्वात्त्रथिताग्रणीः सः॥८३॥

सर्वज्ञतकैव भवेन हेतुः पीठाधिरोहे परिशुद्धता च ।

सा तेऽस्ति वा नेति विचार्यमेतत्तिष्ठ क्षणं त्व कुरु साहसं मा ॥८॥

वं चाङ्गनाः समुपभुज्य कलारहस्यप्रावीण्यभाजनमभूयतिधर्मनिष्ठः ।

आरोढुमीदृशपदं कथमर्हता ते सर्वज्ञतेव विमलत्वमपीह हेतुः ।। ८५।।

नास्मिञ्शरीरे कृतकिल्विषोऽहं जन्मप्रभृत्यम्ब न संदिहेऽहम् ।

न्यधायि देहान्तरसंश्रयाद्यन्न तेन लिप्येत हि कर्मणाऽन्यः ॥ ८६ ॥

इत्थं निरुत्तरपदां स विधाय देवी सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः ।

संमानितोऽभवदसौ विबुधेश्च वाण्या गार्या कहोलमुखरैखि याज्ञवल्क्यः॥

वादप्रादुर्विनोदप्रतिकथनसुधीवाददुरितर्क-

न्यकारस्वरधाटीभरितहरिदुपन्यस्तमाहानुभाव्यः।

सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ-

श्लाघाजोघुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥८८॥

कुत्राप्यासीत्प्रलीनेक्षणचरणकथा कापिली क्वापि लीना

भग्नाऽभना गुरूक्तिः क्वचिदजनि परं भट्टपादप्रवादः ।

भूमावायोगकाणादजनिमतमथाभूतवाग्भेदवार्ता

दुर्दान्तब्रह्मविद्यागुरुदुरुदकथादुन्दुभर्धिन्धिमेतः ॥ ८९ ॥


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152