श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम्-223

सयो विधोतितासौ विपथविमर्थनैर्मुक्तिपद्याऽनवधा

श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ॥ ९७॥

हन्ताऽऽशोभियशोभरस्त्रिजगतीमन्दारकुन्देन्दुभा-

मुक्ताहारपटीरहीरविहरनीहारतारानिमः।

कारुण्यामृतनिझरैः सुकृतिनां दैन्यानलः शून्यतां

नीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ॥

आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा

विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः ।

भक्ताः स्वेप्सितमुक्तिमुक्तिकलनोपायैः कृतार्थीकृता

भिक्षुक्ष्मापतिना किमन्यदधुना सौजन्यमातन्यताम् ॥९९॥

पारिकाङ्क्षीश्वरोऽप्यापदुद्धारकं सेवमानातुलस्वस्तिविस्तारकम् ।

पापदावानलातापसंहारकं योगिवृन्दाधिपः प्राप केदारकम् ॥१०॥

तत्रातिशीतार्दितशिष्यसङ्घसंरक्षणायातुलितप्रभावः।

तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकरप्रधानः ॥ १०१॥

कर्मन्दिवृन्दपतिना गिरिशोऽर्थितः सन् संतप्तवारिलहरीं स्वपदारविन्दात् ।

प्रावर्तयत्प्रथयती यतिनाथकीर्ति याऽद्यापि तत्र समुदश्चति तप्ततोया ॥

इति कृतसुरकार्य नेतुमाजग्मुरेनं

रजतशिखरिशृङ्ग तुङ्गमीशावतारम् ।

विधिशतमखचन्द्रोपेन्द्रवाय्वग्निपूर्वाः

सुरनिकरवरेण्याः सर्षिसङ्घाः ससिद्धाः ॥ १३ ॥

विद्युदल्लीनियुतसमुदारब्धयुद्धैर्विमानः

संख्यातीतः सपदि गगनाभोगमाच्छादयन्तः ।


Comments

Popular posts from this blog

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213