Posts

श्रीमच्छङ्करदिग्विजयः - दशम सर्ग: राजदेहप्रवेशादिकथनम् - 150

बहुतिथमभितोऽसौ नर्मदा नर्मदा तो मगधभुवि निवासं निर्ममे निर्ममेन्द्रः॥ १०५ ॥ इति वशीकृतमण्डनपण्डितः प्रणतमत्करणत्रयदण्डितः । सकलसद्गुणमण्डलमण्डितः स निरगात्कृतदुर्मतखण्डितः ॥१०६ ॥ कुसुमितविविधपलाशभ्रमदलिकुलगीतमधुरस्वनम् । पश्यन् विपिनमयासीदाशा कीनाशपालितामेषः ॥ १०७॥ तत्र महाराष्ट्रमुखे देशे ग्रन्थान् प्रचारयन् प्राज्ञतमः | शमितमतान्तरमानः शनकैः सनकोपमोऽगमच्छ्रीशैलम् ॥ १८ ॥ प्रफुल्लमल्लिकावनप्रसङ्गसङ्गतामित- प्रकाण्डगन्धवन्धुरप्रवातधूतपादपम् । सदामदद्विपाधिपप्रहारशूरकेसरि वजं भुजङ्गभूषणप्रियं स्वयम्भुकौशलम् ।। १०९ ।। कलिकल्मषभङ्गायां सोऽनेराराच्चलत्तरङ्गायाम् । अधरीकृततुङ्गायां सस्नो पातालगामिगङ्गायाम् ॥ ११० ॥ नमन्मोहभङ्ग नभोलेहिशृङ्ग त्रुटत्पापपङ्गं रटत्पक्षिभृङ्गम् । समाश्लिष्टगङ्गं प्रहृष्टान्तरङ्ग तमारुह्य तुङ्गं ददर्शेशलिङ्गम् ॥ ११ ॥ प्रणमद्भववीजभर्जनं प्रणिपत्यामृतसम्पदार्जनम् । प्रमुमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥ ११२ ॥ तीररुहैः कृष्णायास्तीरेऽवात्सीतिरोहितोष्णायाः। आवर्जिततृष्णाया आचार्येन्द्रो निरस्त कार्ष्यायाः ॥ ११३ ॥ तत्रातिचित्रपदमनभवान् पवित्रकीर्तिर्विचित्

श्रीमच्छङ्करदिग्विजयः - दशम सर्ग: राजदेहप्रवेशादिकथनम् - 151

अच्याफ्यन्तमसदर्थनिरासपूर्व किन्स्वन्यतीर्थयशसं श्रुतिभाष्यजातम् । आक्षिप्य पाशुपतवैष्णवीरशैवमाहेश्वराश्च विजिता हि सुरेश्वरायः ॥ केचिद्विसृज्य मतमात्म्यममुष्य शिष्य- भावं गता विगतमत्मरमानदोषाः । अन्ये तु मन्युपशमेत्य जघन्यचित्ता निन्युः क्षणं निधनमस्य निरीक्षमाणाः ।। ११६ ।। वेदान्तीकृतनीचशूद्रवचसो वेदाः स्वयं कल्पनाः पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः खलाः । साक्षाब्रह्मणि शङ्करे विदधति स्पर्धानिबद्धां मति कृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम् ।। वाणी काणभुजी च नैव गणिता लीना क्वचित्कापिली शैवं चाशिवभावमेति भजते गर्दापदं चाहतम् । दोग दुर्गतिमश्नुते भुवि जनः पुष्णाति को वैष्णवं निष्णातेषु यतीशसूक्तिषु कथाकेलीकृतामुक्तिषु ।। ११८ ।। तथागतकथा गता तदनुयायि नैयायिक वचोऽजनि न चोदितो वदति जातु तौतातितः । विदग्धति न दग्धधीविदितचापलं कापिलं विनिर्दयविनिर्दलद्विमतसङ्करे शङ्करे ॥ ११९ ॥ इति श्रीमाधवीये तत्कलाज्ञत्वप्रपञ्चनम् । संक्षेपशङ्करजये सर्गोऽयं दशमोऽभवत् ॥

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152

॥ एकादशः सर्गः॥ (उग्रभैरववधः) तत्रैकदाच्छादितनैजदोषः पौलस्त्यवत्कल्पितसाधुवेषः । निर्मानमायं स्थितकार्यशेषः कापालिकः कश्चिदनल्पदोषः ॥१॥ असावपश्यन्मदनावश्यं वश्येन्द्रियाश्वमुनिभिर्विमृग्यम् । आदिश्य भाष्यं सपदि प्रशस्यमासीनमाश्रित्य मुनि रहस्यम् ॥२॥ दृष्ट्वैव हृष्टः स चिरादभीष्टं निर्धार्य संसिद्धमिव स्वमिष्टम् । महद्विशिष्टं निजलामतुष्टं विस्पष्टमाचष्ट च कृत्यशिष्टम् ॥३॥ गुणांस्तवाकये मुनेऽनवद्यान्साश्यसौशील्यदयालुताद्यान् । द्रष्टुं समुत्कण्ठिनचित्तवृत्तिभवन्तमागां विदितप्रवृत्तिः । ४ ॥ त्वमेक एवात्र निरस्तमोहः पराकृतद्वतिवचःसमूहः । आभासि दूरीकृतदेहमानः शुद्धाद्वये योजितसर्वमानः ॥५॥ परोपकृत्यै प्रगृहीतमूर्तिरमर्त्यलोकेष्वपि गीतकीर्तिः । कटाक्षलेशादितसञ्जनातिः सदुक्तिसम्पादितविश्वपूर्तिः ॥ ६॥ गुणाकरत्वाद्भुवनैकमान्यः समस्तवित्त्वादभिमानशून्यः । विजित्वरत्वाद्गलहस्तितान्यः स्वात्मप्रदत्वाच महावदान्यः ।। ७ ॥ अशेषकल्याणगुणालयेषु परावरज्ञेषु भवादृशेषु । कार्यार्थिनः काप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम् ।। तस्मान्महत्कार्यमहं प्रपद्य निर्वर्तितं सर्वविता त्वयाऽद्य । कपालिन प्रीण

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 153

अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् । अतोषयं तीव्रतपोभिरुग्रं सुदुष्करैरन्दशतं समग्रम् ॥ १० ॥ तुष्टोऽब्रवीन्मां गिरिशः पुमर्थमभीप्सितं प्राप्स्यसि मत्प्रियार्थम् । जुहोपि चेत्सर्वविदः शिरो वा हुताशने भूमिपतेः शिरो वा ॥ ११ ॥ एतावदुक्त्वाऽन्तरधान्महेशस्तदादि तत्संग्रहणे धृताशः। चराम्यथापि क्षितिपो न लब्धो न सर्व वित्तत्र मयोपलब्धः ॥१२॥ दिष्टयाऽद्य लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् । इतः परं सेत्स्यति मेऽनुवन्धः सन्दर्शनान्तो हि जनस बन्धः ॥ १३ ॥ मूर्धाभिषिक्तस्य शिरःकपालं मुनीशितुर्वा मम सिद्धिहेतुः । आधे पुनर्मे मनसाऽप्यलभ्यं ततः परं तत्रभवान् प्रमाणम् ॥ १४ ॥ शिरःप्रदानेऽद्भुतकीर्तिलाभस्तवापि लोके मम सिद्धिलामः । आलोच्य देहस्य च नश्वरत्वं यद्रोचते सत्तम तत्कुरु त्वम् ।। १५ ॥ तद्याचितुं न क्षमते मनो मे को वेष्टदायि स्वशरीरमुज्झतु । भवान् विरक्तो न शरीरमानी परोपकाराय धृतात्मदेहः ॥१६॥ जनाः परक्लेशकथानभिज्ञा नक्तं दिवा स्वार्थकृतात्मचित्ताः । रिपुं निहन्तुं कुलिशाय वज्री दाधीचमादात्किल वाञ्छितास्थि ॥१७॥ दधीचिमुख्याः क्षणिकं शरीरं त्यक्त्वा परार्थे स्म यशःशरीरम् । प्रा

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 154

जीमूतवाहो निजजीवदायी दधीचिरपस्थि मुदा ददानः । आचन्द्रतारामपायशून्य प्राप्तौ यशः कर्णपथं गतौ हि ॥ २१ ॥ यद्यप्यदेयं ननु देहवद्भिर्मयार्थितं गर्हितमेव सद्भिः। तथाऽपि सर्वत्र विरागवद्भिः किमस्त्यदेयं परमार्थविद्भिः ॥ २२ ॥ अखण्डमूर्धन्यकपालमाहुः संसिद्धिदं साधकपुङ्गवेभ्यः । विना भवन्तं बहो न सन्ति तद्वत् पुमांसा भगवन् पृथिव्याम् ॥ प्रयच्छ शी भगवनमः स्तादितीरयित्वा पतितं पुरस्तात् । तमनत्रीद्वील्य सुधीरवस्तात्कृपालरावृत्तमनाः समस्तात् ।। २४ ॥ नैवाम्यस्यामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् । को वापिसात्प्राजतमो नृकार्य जानन कुर्यादिह बह्वपायम् ॥२५॥ पतत्यवश्यं हि विकृष्यमाणं कालेन यतादपि रक्ष्यमाणम् । वर्माना विध्यति चेत्तरार्थः स एव मर्त्यस परः पुमर्थः ॥ २६ ॥ वर्ते विविक्तेऽघिसमाधि सिद्धिविन्मिथः समायाहि करोमि ते मतम् । नाहं प्रकाशं वितरीतुमुत्सहे शिरःकपालं विजनं समाश्रय ।। २७ ।। शिष्या विदन्ति यदि चिन्तितकार्यमेतत् योगिन् मदेवशरणा विहति विदध्युः। को वा सहेत वपुरेतदयोहितुं वं को वा क्षमेत निजनाथशरीरमोक्षम् ॥ २८॥ तौ संविदं वितनुतामिति संप्रहृष्टी योगी जगाम मुदितो निलयं मनस्वी । श्

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 155

शूली त्रिपुण्ड्री पुरतोऽवलोकी कङ्कालमालाकृतगात्रभूषः । संरक्तनेवा मदघूर्णिताक्षो योगी ययो देशिकवासभूमिम् ।। ३० ॥ शिष्येषु शिष्टेषु विदूरगेषु स्नानादिकार्याय विविक्तभाजि । श्रीदेशिकेन्द्रे तु सनन्दनाख्यभीत्या स्वदेहं व्यवधाय गूढे ॥ ३१ ।। तं भैरवाकारसुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मनः । आत्मानमात्मन्युदयुक्त यो जपन् समाहितात्मा करणानि संहरन् । तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम् । योगीशमासादितनिर्विकल्पं सनत्सुजातप्रभृतेरनल्पम् ॥ ३३ ॥ जत्रुप्रदेशे चिबुकं निधाय व्यात्तास्यमुत्तानकरौ निधाय । जानूपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥३४॥ आसीनमुच्चीकृतपूर्वगात्रं सिद्धासने शेषितबोधमात्रम् । चिन्मानविन्यस्तहृषीकवर्ग समाधिविस्मारितविश्वसर्गम् ॥ ३५ ॥ विलोक्य तं हन्तुमपास्तशङ्कः स्वबुद्धिपूर्वार्जिततीव्रपङ्कः। प्रापोद्यतासिः सविधं स यावद्विज्ञातवान् पद्मपदोऽपि तावत् ॥ ३६॥ त्रिशूलमुबम्य निहन्तुकामं गुरुं यतात्मा समुदेक्षतान्तः । स्थितश्चुकोप ज्वलिताग्निकल्पः स पद्मपादः स्वगुरोहितेषी ॥ ३७॥ स्मरन्नथैष स्मरदातिहारि प्रह्लादवश्यं परमं महस्तत् । स मन्त्रसिद

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

क्षुभ्यत्समुद्रं समुहढरौद्र रटनिशाटं स्फुटदद्रिकूटम् । ज्वलदिशान्तं प्रचलद्धान्तं प्रभ्रश्यदक्षं दलदन्तरिक्षम् ॥ ४१॥ जवादभिद्रुत्य शितस्वस्त्रैर्दैत्येश्वरस्येव पुरा नखाः। क्षिपत्रिशूलस्य स तस्य वक्षो ददार विक्षिप्तसुरारिपक्षः ॥ ४२ ॥ तत्तागत्युग्रनखायुधाम्यो दंष्ट्रान्तरप्रोतदुरीहदेहः । निन्ये तदार्नी नृहारविदीर्णधुपट्टनाट्टालिकमट्टहासम् ॥ ४३ ॥ आकर्णवस्तं निनदं बहिर्गता उपागमन्नाकुलचित्तवृत्तयः । व्यलोकयन् भैरवमग्रनो मृतं ततो विमुक्तं च गुरुं सुखोषितम् ॥४४॥ प्रहावश्यो भगवान् कथं वा प्रसादितोऽयं नृहरिस्त्वयेति । सविस्मयः स्निग्धजनैः स पृष्टः सनन्दनः सस्मितमित्यवादीत् ॥ ४५।। पुरा किलाहोबलभूधराग्रे पुण्यं समाश्रित्य किमप्यरण्यम् । भक्तकवश्यं भगवन्तमेनं ध्यायननेकान् दिवसाननैषम् ।। ४६ ॥ किमर्थमेको गिरिगह्वरेस्मिन् वाचंयम त्वं वससीति शश्वत् । केनापि पृष्टोऽत्र किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ।। ४७ ॥ आकण्ठमत्यद्भुतमर्त्यमूर्तिः कण्ठीवात्मा परतश्च कश्चित् । मृगो वनेऽस्मिन् मृगयो वसन्मे भवत्यहो नाक्षिपणे कदापि ॥४८॥ इतीरयत्येव मयि क्षणेन वनेचरोऽयं प्रविशन् बनान्तम् । निबध्य गाढं नृहरि लत