Posts

Showing posts from May, 2021

श्रीमच्छङ्करदिग्विजयः - दशम सर्ग: राजदेहप्रवेशादिकथनम् - 150

बहुतिथमभितोऽसौ नर्मदा नर्मदा तो मगधभुवि निवासं निर्ममे निर्ममेन्द्रः॥ १०५ ॥ इति वशीकृतमण्डनपण्डितः प्रणतमत्करणत्रयदण्डितः । सकलसद्गुणमण्डलमण्डितः स निरगात्कृतदुर्मतखण्डितः ॥१०६ ॥ कुसुमितविविधपलाशभ्रमदलिकुलगीतमधुरस्वनम् । पश्यन् विपिनमयासीदाशा कीनाशपालितामेषः ॥ १०७॥ तत्र महाराष्ट्रमुखे देशे ग्रन्थान् प्रचारयन् प्राज्ञतमः | शमितमतान्तरमानः शनकैः सनकोपमोऽगमच्छ्रीशैलम् ॥ १८ ॥ प्रफुल्लमल्लिकावनप्रसङ्गसङ्गतामित- प्रकाण्डगन्धवन्धुरप्रवातधूतपादपम् । सदामदद्विपाधिपप्रहारशूरकेसरि वजं भुजङ्गभूषणप्रियं स्वयम्भुकौशलम् ।। १०९ ।। कलिकल्मषभङ्गायां सोऽनेराराच्चलत्तरङ्गायाम् । अधरीकृततुङ्गायां सस्नो पातालगामिगङ्गायाम् ॥ ११० ॥ नमन्मोहभङ्ग नभोलेहिशृङ्ग त्रुटत्पापपङ्गं रटत्पक्षिभृङ्गम् । समाश्लिष्टगङ्गं प्रहृष्टान्तरङ्ग तमारुह्य तुङ्गं ददर्शेशलिङ्गम् ॥ ११ ॥ प्रणमद्भववीजभर्जनं प्रणिपत्यामृतसम्पदार्जनम् । प्रमुमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥ ११२ ॥ तीररुहैः कृष्णायास्तीरेऽवात्सीतिरोहितोष्णायाः। आवर्जिततृष्णाया आचार्येन्द्रो निरस्त कार्ष्यायाः ॥ ११३ ॥ तत्रातिचित्रपदमनभवान् पवित्रकीर्तिर्विचित्...

श्रीमच्छङ्करदिग्विजयः - दशम सर्ग: राजदेहप्रवेशादिकथनम् - 151

अच्याफ्यन्तमसदर्थनिरासपूर्व किन्स्वन्यतीर्थयशसं श्रुतिभाष्यजातम् । आक्षिप्य पाशुपतवैष्णवीरशैवमाहेश्वराश्च विजिता हि सुरेश्वरायः ॥ केचिद्विसृज्य मतमात्म्यममुष्य शिष्य- भावं गता विगतमत्मरमानदोषाः । अन्ये तु मन्युपशमेत्य जघन्यचित्ता निन्युः क्षणं निधनमस्य निरीक्षमाणाः ।। ११६ ।। वेदान्तीकृतनीचशूद्रवचसो वेदाः स्वयं कल्पनाः पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः खलाः । साक्षाब्रह्मणि शङ्करे विदधति स्पर्धानिबद्धां मति कृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम् ।। वाणी काणभुजी च नैव गणिता लीना क्वचित्कापिली शैवं चाशिवभावमेति भजते गर्दापदं चाहतम् । दोग दुर्गतिमश्नुते भुवि जनः पुष्णाति को वैष्णवं निष्णातेषु यतीशसूक्तिषु कथाकेलीकृतामुक्तिषु ।। ११८ ।। तथागतकथा गता तदनुयायि नैयायिक वचोऽजनि न चोदितो वदति जातु तौतातितः । विदग्धति न दग्धधीविदितचापलं कापिलं विनिर्दयविनिर्दलद्विमतसङ्करे शङ्करे ॥ ११९ ॥ इति श्रीमाधवीये तत्कलाज्ञत्वप्रपञ्चनम् । संक्षेपशङ्करजये सर्गोऽयं दशमोऽभवत् ॥

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 152

॥ एकादशः सर्गः॥ (उग्रभैरववधः) तत्रैकदाच्छादितनैजदोषः पौलस्त्यवत्कल्पितसाधुवेषः । निर्मानमायं स्थितकार्यशेषः कापालिकः कश्चिदनल्पदोषः ॥१॥ असावपश्यन्मदनावश्यं वश्येन्द्रियाश्वमुनिभिर्विमृग्यम् । आदिश्य भाष्यं सपदि प्रशस्यमासीनमाश्रित्य मुनि रहस्यम् ॥२॥ दृष्ट्वैव हृष्टः स चिरादभीष्टं निर्धार्य संसिद्धमिव स्वमिष्टम् । महद्विशिष्टं निजलामतुष्टं विस्पष्टमाचष्ट च कृत्यशिष्टम् ॥३॥ गुणांस्तवाकये मुनेऽनवद्यान्साश्यसौशील्यदयालुताद्यान् । द्रष्टुं समुत्कण्ठिनचित्तवृत्तिभवन्तमागां विदितप्रवृत्तिः । ४ ॥ त्वमेक एवात्र निरस्तमोहः पराकृतद्वतिवचःसमूहः । आभासि दूरीकृतदेहमानः शुद्धाद्वये योजितसर्वमानः ॥५॥ परोपकृत्यै प्रगृहीतमूर्तिरमर्त्यलोकेष्वपि गीतकीर्तिः । कटाक्षलेशादितसञ्जनातिः सदुक्तिसम्पादितविश्वपूर्तिः ॥ ६॥ गुणाकरत्वाद्भुवनैकमान्यः समस्तवित्त्वादभिमानशून्यः । विजित्वरत्वाद्गलहस्तितान्यः स्वात्मप्रदत्वाच महावदान्यः ।। ७ ॥ अशेषकल्याणगुणालयेषु परावरज्ञेषु भवादृशेषु । कार्यार्थिनः काप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम् ।। तस्मान्महत्कार्यमहं प्रपद्य निर्वर्तितं सर्वविता त्वयाऽद्य । कपालिन प्रीण...

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 153

अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् । अतोषयं तीव्रतपोभिरुग्रं सुदुष्करैरन्दशतं समग्रम् ॥ १० ॥ तुष्टोऽब्रवीन्मां गिरिशः पुमर्थमभीप्सितं प्राप्स्यसि मत्प्रियार्थम् । जुहोपि चेत्सर्वविदः शिरो वा हुताशने भूमिपतेः शिरो वा ॥ ११ ॥ एतावदुक्त्वाऽन्तरधान्महेशस्तदादि तत्संग्रहणे धृताशः। चराम्यथापि क्षितिपो न लब्धो न सर्व वित्तत्र मयोपलब्धः ॥१२॥ दिष्टयाऽद्य लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् । इतः परं सेत्स्यति मेऽनुवन्धः सन्दर्शनान्तो हि जनस बन्धः ॥ १३ ॥ मूर्धाभिषिक्तस्य शिरःकपालं मुनीशितुर्वा मम सिद्धिहेतुः । आधे पुनर्मे मनसाऽप्यलभ्यं ततः परं तत्रभवान् प्रमाणम् ॥ १४ ॥ शिरःप्रदानेऽद्भुतकीर्तिलाभस्तवापि लोके मम सिद्धिलामः । आलोच्य देहस्य च नश्वरत्वं यद्रोचते सत्तम तत्कुरु त्वम् ।। १५ ॥ तद्याचितुं न क्षमते मनो मे को वेष्टदायि स्वशरीरमुज्झतु । भवान् विरक्तो न शरीरमानी परोपकाराय धृतात्मदेहः ॥१६॥ जनाः परक्लेशकथानभिज्ञा नक्तं दिवा स्वार्थकृतात्मचित्ताः । रिपुं निहन्तुं कुलिशाय वज्री दाधीचमादात्किल वाञ्छितास्थि ॥१७॥ दधीचिमुख्याः क्षणिकं शरीरं त्यक्त्वा परार्थे स्म यशःशरीरम् । प्रा...

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 154

जीमूतवाहो निजजीवदायी दधीचिरपस्थि मुदा ददानः । आचन्द्रतारामपायशून्य प्राप्तौ यशः कर्णपथं गतौ हि ॥ २१ ॥ यद्यप्यदेयं ननु देहवद्भिर्मयार्थितं गर्हितमेव सद्भिः। तथाऽपि सर्वत्र विरागवद्भिः किमस्त्यदेयं परमार्थविद्भिः ॥ २२ ॥ अखण्डमूर्धन्यकपालमाहुः संसिद्धिदं साधकपुङ्गवेभ्यः । विना भवन्तं बहो न सन्ति तद्वत् पुमांसा भगवन् पृथिव्याम् ॥ प्रयच्छ शी भगवनमः स्तादितीरयित्वा पतितं पुरस्तात् । तमनत्रीद्वील्य सुधीरवस्तात्कृपालरावृत्तमनाः समस्तात् ।। २४ ॥ नैवाम्यस्यामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् । को वापिसात्प्राजतमो नृकार्य जानन कुर्यादिह बह्वपायम् ॥२५॥ पतत्यवश्यं हि विकृष्यमाणं कालेन यतादपि रक्ष्यमाणम् । वर्माना विध्यति चेत्तरार्थः स एव मर्त्यस परः पुमर्थः ॥ २६ ॥ वर्ते विविक्तेऽघिसमाधि सिद्धिविन्मिथः समायाहि करोमि ते मतम् । नाहं प्रकाशं वितरीतुमुत्सहे शिरःकपालं विजनं समाश्रय ।। २७ ।। शिष्या विदन्ति यदि चिन्तितकार्यमेतत् योगिन् मदेवशरणा विहति विदध्युः। को वा सहेत वपुरेतदयोहितुं वं को वा क्षमेत निजनाथशरीरमोक्षम् ॥ २८॥ तौ संविदं वितनुतामिति संप्रहृष्टी योगी जगाम मुदितो निलयं मनस्वी । श्...

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 155

शूली त्रिपुण्ड्री पुरतोऽवलोकी कङ्कालमालाकृतगात्रभूषः । संरक्तनेवा मदघूर्णिताक्षो योगी ययो देशिकवासभूमिम् ।। ३० ॥ शिष्येषु शिष्टेषु विदूरगेषु स्नानादिकार्याय विविक्तभाजि । श्रीदेशिकेन्द्रे तु सनन्दनाख्यभीत्या स्वदेहं व्यवधाय गूढे ॥ ३१ ।। तं भैरवाकारसुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मनः । आत्मानमात्मन्युदयुक्त यो जपन् समाहितात्मा करणानि संहरन् । तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम् । योगीशमासादितनिर्विकल्पं सनत्सुजातप्रभृतेरनल्पम् ॥ ३३ ॥ जत्रुप्रदेशे चिबुकं निधाय व्यात्तास्यमुत्तानकरौ निधाय । जानूपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम् ॥३४॥ आसीनमुच्चीकृतपूर्वगात्रं सिद्धासने शेषितबोधमात्रम् । चिन्मानविन्यस्तहृषीकवर्ग समाधिविस्मारितविश्वसर्गम् ॥ ३५ ॥ विलोक्य तं हन्तुमपास्तशङ्कः स्वबुद्धिपूर्वार्जिततीव्रपङ्कः। प्रापोद्यतासिः सविधं स यावद्विज्ञातवान् पद्मपदोऽपि तावत् ॥ ३६॥ त्रिशूलमुबम्य निहन्तुकामं गुरुं यतात्मा समुदेक्षतान्तः । स्थितश्चुकोप ज्वलिताग्निकल्पः स पद्मपादः स्वगुरोहितेषी ॥ ३७॥ स्मरन्नथैष स्मरदातिहारि प्रह्लादवश्यं परमं महस्तत् । स मन्त्रसिद...

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 156

क्षुभ्यत्समुद्रं समुहढरौद्र रटनिशाटं स्फुटदद्रिकूटम् । ज्वलदिशान्तं प्रचलद्धान्तं प्रभ्रश्यदक्षं दलदन्तरिक्षम् ॥ ४१॥ जवादभिद्रुत्य शितस्वस्त्रैर्दैत्येश्वरस्येव पुरा नखाः। क्षिपत्रिशूलस्य स तस्य वक्षो ददार विक्षिप्तसुरारिपक्षः ॥ ४२ ॥ तत्तागत्युग्रनखायुधाम्यो दंष्ट्रान्तरप्रोतदुरीहदेहः । निन्ये तदार्नी नृहारविदीर्णधुपट्टनाट्टालिकमट्टहासम् ॥ ४३ ॥ आकर्णवस्तं निनदं बहिर्गता उपागमन्नाकुलचित्तवृत्तयः । व्यलोकयन् भैरवमग्रनो मृतं ततो विमुक्तं च गुरुं सुखोषितम् ॥४४॥ प्रहावश्यो भगवान् कथं वा प्रसादितोऽयं नृहरिस्त्वयेति । सविस्मयः स्निग्धजनैः स पृष्टः सनन्दनः सस्मितमित्यवादीत् ॥ ४५।। पुरा किलाहोबलभूधराग्रे पुण्यं समाश्रित्य किमप्यरण्यम् । भक्तकवश्यं भगवन्तमेनं ध्यायननेकान् दिवसाननैषम् ।। ४६ ॥ किमर्थमेको गिरिगह्वरेस्मिन् वाचंयम त्वं वससीति शश्वत् । केनापि पृष्टोऽत्र किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ।। ४७ ॥ आकण्ठमत्यद्भुतमर्त्यमूर्तिः कण्ठीवात्मा परतश्च कश्चित् । मृगो वनेऽस्मिन् मृगयो वसन्मे भवत्यहो नाक्षिपणे कदापि ॥४८॥ इतीरयत्येव मयि क्षणेन वनेचरोऽयं प्रविशन् बनान्तम् । निबध्य गाढं नृहरि लत...

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 157

आकर्ण्य तां पद्मपदस्य वाणीमानन्दमनैरखिलैरभावि । जगर्ज चोचैर्जगदण्डमाण्डं भून्ना स्वधाना दलयन् नृसिंहः ॥ ५२ ॥ ततस्तदा टचलसमाधिः स्वात्मप्रबोधोन्मथितन्युपाधिः । उन्मील्य नेत्रे विकरालवक्त्रं व्यलोकयन्मानवपञ्चवक्त्रम् ॥ ५३॥ चन्द्रांशुसोदर्यसटाजटालं तार्तीयनेत्राजकननिटालम् । सहोद्यदुष्णांशुसहस्रभासं विध्यण्डविस्फोटकदट्टहासम् ॥ ५४॥ नखाग्रनिर्भिन्नकपालिवक्षःस्थलोचलच्छोणितपङ्किलाङ्गम् । श्रीवत्सवत्सं गलबैजयन्तीश्रीरत्नसंस्पर्धितदन्त्रमालम् ॥ ५५॥ सुरासुरवासकरातिधोरस्वाकारसारव्यथिताण्डकोशम् । दंष्ट्राकरालानननिर्यदमिज्वालालिसंलीढनभोवकाशम् ॥ ५६ ॥ स्वरोमक्षोद्तविस्फुलिङ्गपचारसंदीपितसर्वलोकम् । जम्भविडुज्जृम्भितशम्भुदम्भसंस्तम्भनारम्भकदन्तपेषम् ॥ ५७॥ मा भूदकाण्डे प्रलयो महात्मन् कोपं नियच्छेति गृणद्भिरारात् । ससाध्वसेः प्राञ्जलिभिः सगात्रकम्पैर्विरिञ्च्यादिभिरर्यमानम् ।। ५८॥ विलोक्य विद्युच्चपलोग्रजिह्व यतिक्षितीशः पुरतो नृसिंहम् । अभीतिरैडिष्ट तदोपकण्ठं स्थितोऽपि हर्षाश्रुपिनद्धकण्ठः ॥ ५९ ॥ नरहरे हर कोपमनर्थदं तव रिपुर्निहतो भुवि वर्तते । कुरु कृपां मयि देव सनातनी जगांदेदं भयमेति भवद्दशा ॥६॥ तव वप...

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 158

स्मृतवतस्तव पादसरोरुहं मृतवतः पुरुषस्य विमुक्तता। तव कराभिहतोऽमृत भैरवो न हि स एष पुनर्भवमेष्यति ॥ ६३ ॥ दितिजसूनुममुं व्यसनार्दित सकृदरक्षदुदारगुणो भवान् । सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुरः ॥६४ ॥ सृजसि विश्वमिदं रजसाऽऽवृतः स्थितिविधौ श्रितसन्च उदायुधः । अवसि तद्धरणे तमसाऽऽवृतो हरसि देव तदा हरसंज्ञितः ॥ ६५ ।। तव जनिर्न गुणास्तव तत्त्वतो जगदनुग्रहणाय भवादिकम् । तव पदं खलु वाचनसातिगं श्रुतिवचश्चकितं तव बोधकम् ॥ ६६ ॥ नरहरे तव नामपरिश्रवात् प्रमथगुह्यकदुष्टपिशाचकाः। अपसरन्ति विभोऽसुरनायका न हि पुरःस्थितये प्रभवन्त्यपि ॥६७ ॥ त्वमेव सर्गस्थितिहेतुरस त्वमेव नेता नृहरेऽखिलस्य । त्वमेव चिन्त्यो हृदयेऽनवद्य त्वामेव चिन्मात्रमहं प्रपद्ये ॥६८॥ हतो वराको हि रुषं नियच्छ विश्वस्य भृमन्नभयं प्रयच्छ । एते हि देवाः शममर्थयन्ते निरीक्ष्य भीताः प्रतिखेदयन्ते ॥ ६९ ॥ द्रष्टुं न शक्या हि तवानुकम्पाहीनैजनैर्निनुतकोटिशंपाम् । मूर्तिं तदात्मन्नुपसंहरेमां पाहि त्रिलोकी समतीतसीमाम् ॥ ७ ॥ कल्पान्तोज्जृम्भमाणप्रमथतरिवृढप्रौढलालाटवति- ज्वालालीढत्रिलोकीजनितचटचटाध्वानधिक्कारधुर्यः । मध्ये ब्रह्माण्डमाण्ड...

श्रीमच्छङ्करदिग्विजयः - एकादश सर्ग: उग्रभैरव वध: - 159

कल्पान्तोनिद्ररुद्रोच्चतरडमरुकध्वानबद्धाभ्यसूयो घोषोऽयं कर्णधोरः क्षपयतु नृहरे रंहसां संहतिं नः ।। ७२॥ शुन्दानो मक्षु कल्पावधिममयसमुज्जृम्भदम्भोदगुम्भ- स्फूर्जद्दम्भोलिसङ्घस्फुरदुरुटिताखर्वगर्वप्ररोहान् । क्रीडाकोडेन्द्रघोणासरमसविसरद्धोरघू?रवश्री- गम्भीरस्तेऽट्टहासो हर हर नहरे रंहसांहांसि हन्यात् । ७३॥ एवं विशिष्टनुतिभिर्तृहरौ प्रशान्ते स्वं भावमेत्य मुनिरेष बभूव शान्तः । स्खमानुभूतमिव शान्तमनाः स्मरंस्त- मात्मानमान्मगुरवे प्रणति चकार ॥ ७४ !' चारित्र्यमेतत्प्रयतत्रिसन्ध्यं भक्त्या पठेद्यः शृणुयादवन्ध्यम् । तीवोऽपमृत्यु प्रतिपद्य भक्ति स भुक्तभोगः समुपैति मुक्तिम् ॥ ७५ ॥ इति श्रीमाधवीये तदुप्रभैरवनिर्जयः। संक्षेपशङ्करजये सर्ग एकादशोऽभवत् ॥

श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 160

॥द्वादशः सर्गः॥ (हस्तामलकादीनां शिष्यत्वेन ग्रहणमा) अर्थकदाऽसौ यतिसार्वभौमस्तीर्थानि सर्वाणि चरन सतीथ्यः । घोरात् कलेगोपितधर्ममागाद्वोकर्णमभ्यर्णचलार्णवोधम् ॥१॥ विरिञ्चनाम्भोरुहनाभवन्धं प्रपश्चनाट्याद्भुतसूत्रधारम् । तुष्टाव वामावधूटिमस्तदुष्टावलेप प्रणमन् महेशम् ॥ २॥ वपुः स्मरामि क्वचन स्मरारेबलाहकाद्वैतवदावदधि । सौदामिनीसाधितसम्प्रदायसमर्थनादेशिकमन्यतश्च ॥३॥ वामाङसीमाङ्कुरदंशुखण्याचश्चन्मृगाश्चत्तरदक्षपाणि । सव्यान्यशोभाकलमाग्रभक्षसाकादक्षकीरान्यकरं महोऽस्मि ॥ ४ ॥ महीध्रकन्यागलसङ्गतोऽपि माङ्गल्यतन्तुः किल हालहालम् । यत्कण्ठदेशेऽकृत कुण्ठशक्तिमक्यानुभावादहमस्मि भूमा ॥५॥ गुणत्रयातीतविभाध्यमित्थं गोकर्णनाथं वचसार्चयित्वा । तिस्रः स रात्रीत्रिजगत्पवित्र क्षेले मुदेष क्षिपति स्म कालम् ॥६॥ वैकुण्ठकैलासविवर्तभूतं हरबताचं हरिशङ्कराख्यम् । दिव्यस्थलं देशिकसार्वभौमस्तीर्थप्रवासी नचिरादयासीत् ॥ ७॥ भ्रमापनोदाय भिदावदानामद्वैतमुद्रामिह दर्शयन्तौ । आराध्य देवौ हरिशङ्करौ स द्वयर्थाभिरित्यर्चयति स्म वाग्भिः ॥८॥ वन्धं महासोमकलाविलासं गामादरेणाऽऽकलयानादिम् । मैनं महः किंचन दिव्यमङ्गीकुर्वन् विभुमें कु...

श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 161

यो मन्दरागं दधदादितेयान् सुधाभुजः स्मातनुते विषादी। स्वामदिलीलोचितचारुमूर्ते कृपामपारां स भवान् विधत्ताम् ॥१०॥ उल्लासयन्यो महिमानमुच्चैः स्फुरद्वराहीशकलेबरोऽभूत् । तस्मै विदध्मः करयोरजस्रं सायन्तनाम्भोरुहसामरस्यम् ॥ ११ ॥ समावहन केसरितां वरा यः सुरद्विषत्कुञ्जरमाजघान । प्रह्लादमुल्लासितमादधानं पञ्चाननं तं प्रणुमः पुराणम् । १२ ॥ उदैत्तु बल्याहरणाभिलाषो यो वामनो हायजिनं वसानः । तपांसि कान्तारहितो व्यतानीदाधोऽवतादाश्रमिणामयं नः॥१३॥ येनाधिकोद्यत्तरवारिणाऽऽशु जितोऽर्जुनः सङ्गरङ्गभूमौ । नक्षतनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथाः॥१४॥ विलासिनाऽलीकभवेन धाम्ना कामं द्विषन्तं स दशास्यमस्यन् । देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्ममुखानुभूतिम् ॥ १५ ॥ उत्तालकेतुः स्थिरधर्ममूर्तिहालाहलस्वीकरणोग्रकण्ठः । स रोहिणीशानिशचुम्ब्यमाननिजोत्तमाङ्गोऽवतु कोऽपि भूमा ॥१६॥ विनायकनाऽऽकलिताहितापं निषेदुषोत्सङ्गभुवि प्रहष्यन् । यः पूतनामोहकचित्तवृत्तिरव्यादसों कोऽपि कलापभूषः ॥ १७ ॥ पाठीनकेतोर्जयिने प्रतीतसर्वज्ञभावाय दयैकसीग्ने। प्रायः क्रतुद्वैपकतादराय बोधैकधाम्ने स्पृहयामि भन्ने ।। १८ ॥ ध्यतीत्य चेतो विषयं जनान...

श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 162

अङ्के निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहुः प्ररुय । तदेकपुत्रौ द्विजदम्पती स दृष्ट्रा दयाधानतया शुशोच ॥ २१॥ अपारमञ्चत्यथ शोकमस्मिन्नभूयतोचैरशरीरवाचा । जायेत संरक्षितुमक्षमस्य जनस दुःखाय परं दयेति ॥ २२ ॥ माकर्ण्य वाणीमशरीरिणी तामसाविति व्याहरति स्म विज्ञः। जगत्त्रयीरक्षणदक्षिणस्य सत्यं तवैकस्य तु शोभते सा ॥ २३ ॥ इतीरयत्येव यतो द्विजातेः सुतः सुखं सुप्त इवोदतिष्ठत् । समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥ २४ ॥ रम्योपशल्यं कृतमालसालरसालहितालतमालशालैः । सिद्धिस्थलं साधकसंपदा तन्मूकाम्बिकायाः सदन जगाहे ॥२५॥ उच्चावचानन्दजवाष्पाचकतीर्णरोमाञ्चमुदारभक्तिः। अम्बामहापारकपावलम्मा सभावयनस्तुत निस्तुलं सः ॥ २६ ॥ पारेपरावे पदपद्मभासु षष्ट्युत्तरं ते त्रिशतं तु भासः। आवश्य वस्यक सुधामराचीनालोकवन्त्यादधते जगन्ति ॥ २७॥ अन्तश्चतुःषष्ट्यपचारमेन्तेवसत्काण्डपटप्रदानैः। आवाहनावस्तव दाम नित्यमाराधनामादधते महान्तः ॥ २८ ॥ अम्बोपचारेष्वविसिन्धुषष्टि शुद्धाज्ञयोः शुद्धिदमेकमेकम् । सहलपत्र द्वितय च साधु तन्वान्त धन्यास्तव तोषहेतोः ॥ २९ ॥ आराधनं ते बहिरेव केचिदन्तर्बहिश्चैकतमेऽन्तरेव । अन्ये परे त्...

श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 163

कालानिरूपेण जगन्ति दग्ध्वा सुधात्मनाऽऽप्लाव्य समुत्सृजन्तीम् । ये त्वामवन्तीममृतात्म व ध्यायान्त ते सृष्टिकृतो भवन्ति ।। ३२ ।। ये प्रत्यभिज्ञामतपारविज्ञा धन्यास्तु ते प्राविदितां गुरूकत्या । सैवाहमस्मीति समाधियोगात् त्वां प्रत्यभिज्ञाविषयं विदध्यः ॥३३॥ आधारचक्रे च तदुत्तरस्मिन्नाराधयन्त्येहिकभोगलुब्धाः । उपासत ये मणिपूरक त्वां वासस्तु तेषा नगराद् बहिस्ते ॥ ३४ ॥ अनाहते देवि भजन्ति ये त्वामन्तः स्थितिस्त्वनगरे तु तेषाम् । शुद्धाज्ञयोर्ये तु भजन्ति तेषां क्रमण सामीप्यसमानभोगौ ॥ ३५ ॥ सहस्रपत्रे ध्रुवमण्डलाख्ये सरारुहे त्वामनुसंदधानः। चतुर्विधेश्यानुभवास्तमोहः सायुज्यमम्बाश्चात साधकेन्द्रः॥३६ ।। श्रीचक्राट्चक्रको पुरोऽथ श्रीचक्रमन्योरपि चिन्तितैक्यम् । चक्रस्य मन्त्रस्य ततस्तवक्य क्रमादनुध्यायति साधकेन्द्रः ।। ३७॥ इति तां वचनैः प्रपूज्य भैक्षौदनमात्रेण स तुष्टिमान् कृतार्थः । बहुसाधकसस्तुतः कियन्तं समये तत्र निनाय शान्तचेताः ॥३८॥ श्रयति स्म ततोऽग्रहारक श्रीवलिसंज्ञं स कदाचन खशिष्यैः। अनुगेहहुतामिहात्र दुग्धप्रसरत्पावनगन्धलोभनीयम् ॥ ३९ ॥ यतोऽपत्यहिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा । र...

श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 164

तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्यः प्रथितानुभावः । प्रवृत्तिशास्त्रैकरतः सुबुद्धिरास्ते क्रतून्मीलितकीर्तिवृन्दः॥ ४३ ॥ गावो हिरण्यं धरणी समग्रा सद्वान्धवा ज्ञातिजनाश्च तस्य । सन्त्येव कि तैर्न हि तोष एभिः पुत्रो यदस्याजनि मुग्धचेष्टः॥४४॥ न बक्ति किंचिन शृणोति किंचित् ध्यायन्निवास्ते किल मन्दचेष्टः । रूपेषु मारो महसा महस्वान् मुखेन चन्द्रः क्षमया महीसमः ।। ४५ ॥ ग्रहग्रहात् कि जडवद्विचेष्टते किं वा स्वभावादुत पूर्वकर्मणः । संचिन्तयस्तिष्ठति तत्पिताऽनिशं समागतान् प्रष्टुमना बहुश्रुतान् ॥ शिष्यैः प्रशिष्यवहुपुस्त भारः समागतं कञ्चन पूज्यपादम् । शुश्राव तं ग्राममानान्दतात्मा निनाय सूनुं निकटं स तस्य ॥४७॥ न शून्यहस्तो नृपमिष्टदैवं गुरुं च यायादिति शास्त्रवित् स्वयम् । सोपायनः प्राप गुरुं व्यशिश्रणत् फलं ननामास्य च पादपङ्कजे ॥ अनीनमतं च तदीयपादयो डाकृति भस्मनिगूढवह्विवत् । स नोदतिष्ठत् पतितः पदाम्बुजे प्रायः स्वजाड्यं प्रकटं विधित्सति ।। उपात्तहस्तः शनकैरवाङ्मुखं तं देशिकेन्द्रः कृपयोदतिष्ठिपत् । उत्थापिते स्वे तनये पिताब्रवीत् वद प्रभो जाड्यममुष्य किकृतम् ।। वर्षाण्यतीयुभगवन्नमुष्य पञ...

श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 165

इतीरयित्वोपरते च विप्रे पप्रच्छ तं शङ्करदेशिकेन्द्रः । कस्त्वं किमेवं जडवत् प्रवृत्तः स चाब्रवीद्वालवपुर्महात्मा ॥५४॥ नाहं जडः किन्तु जडः प्रवर्तते मत्संनिधानेन न सन्दिहे गुरो। षडूर्मिषड्भावविकारवर्जितं सुखैकतानं परमस्मि तत्पदम् ॥ ५५ ।। ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरूप्य विद्वन् । पद्यः पादशभिर्बभाषे चिदात्मतत्त्वं विधुतप्रपञ्चम् ।। ५६॥ प्रकाशयन्ते परमात्मतत्वं करस्थधात्रीफलवद्यदेकम् । श्लोकास्तु हस्तामलकाः प्रसिद्धास्तत्कर्तुराख्यापि तथैव वृत्ता ।।५७।। विनोपदेशं स्वत एव जातः परात्मबोधो द्विजवर्यसूनोः । व्यस्मेष्ट संप्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपयोत्तमाङ्गे ॥५८॥ सुते निवृत्ते वचनं बभाषे स देशिकेन्द्रः पितरं तदीयम् । वस्तुं न योग्यो भवता सहायं न तेऽमुनार्थो जडिमास्पदेन ॥ ५९॥ पुराभवाभ्यासवशेन स स वेत्ति सम्यङ् न च वक्ति किंचित् । नाचेत्कथं स्वानुभवेकगर्भपद्यानि भाषेत निरक्षरास्यः ।। ६॥ न सक्तिरस्यास्ति गृहादिगोचरा नात्मीयदेहे भ्रमतोऽस्य विद्यते। तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्खे किमु बाद्यवस्तुषु ॥ इतीरयित्वा भगवान् द्विजात्मजं ययो गृहीत्वा दिशभीप्सितां...

श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 166

अभ्यागतार्कल्पितकल्पशाखाः कूलङ्कपाधीतसमस्तशाखाः । इज्याशतैर्यत्र समुल्लसन्तः शान्तान्तराया निवसन्ति सन्तः । ६५ ॥ अध्यापयामास स भाष्यमुख्यान् ग्रन्थान्निजास्तत्र मनीषिमुख्यान । आकर्णनप्राप्यमहापुमर्थानादिष्ट विद्याग्रहणे समर्थान् ॥ ६६ ॥ मन्दाक्षननं कलयनशेष पराणुदत् प्राणितमांस्यशेषम् । निरस्तजीश्वरयोर्विशेष व्याचष्ट वाचस्पतिनिर्विशेषम् ॥ ६७ ॥ प्रकल्प्य तत्रेन्द्रविमानकल्यं प्रासादमाविष्कृतसर्वशिल्पम् । प्रवर्तयामास स देवतायाः पूजामजाद्यैरपि पूजितायाः ॥ ६८ ॥ या शारदाम्बेत्यभिधां वहन्ती कृतां प्रतिज्ञा प्रतिपालयन्ती। अद्यापि शृङ्गेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान् दिशन्ती ॥ ६९ ।। चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूतिः। कश्चिद्विनेयोऽजनि देशिकस्य यं तोटकाचार्यमुदाहरन्ति ॥ ७० ॥ स्नात्वा पुरा क्षिपति कम्बलवस्त्र मुख्यै- रुच्चासनं मृदु समं स ददाति नित्यम् । संलक्ष्य दन्तपरिशोधनकाष्ठमण्यं बाह्यादिकं गतवते सलिलादिकं च ॥ ७ ॥ श्रीदेशिकाय गुरवे तनुमा वस्त्रं विश्राणयत्यनुदिनं विनयोपपन्नः । श्रीपादपद्मयुगमर्दनकोविदश्च छायेव देशिकमसौ भृशमन्वयाद्यः॥ गुरोः समीपे न तु जातु नृम्भते प्रसा...

श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 167

तस्मिन् कदाचन विनेयवरे स्वशाटीप्रक्षालनाय गतवत्यपवर्तनीगा। व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विललम्ब एषः॥ शान्तिपाठमथ कर्तुमसंख्येषधतेषु स विनेयवरेषु । स्थीयतां गिरिरपि क्षणमात्रादेष्यतीति समुदीरयति स्म ॥ ७६ ॥ तां निशम्य निगमान्तगुरूक्तिं मन्दधीरनधिकार्यपि शास्त्रे । किं प्रतीक्ष्यत इति स्म ह मित्तिः पद्मपादमुनिना समदर्शि ॥ ७७॥ तस्य गर्वमपहर्तुमखवं खाश्रयेषु करुणातिशयाच । व्यादिदेश स चतुर्दश विद्याः सद्य एव मनसा गिरिनाम्ने ॥ ७८ ॥ सोऽधिगम्य तदनुग्रहमत्र्यं तत्क्षणेन विदिताखिलविद्यः । ऐट्ट देशिकवरं परतत्वव्यञ्जकर्ललिततोटकवृत्तः ॥ ७९ ॥ श्रीमद्देशिकपादपङ्कजयुगीमूला तदेकाश्रया तत्कारुण्यसुधावसेकसहिता तद्भक्तिसल्ली। हृद्यं तोटकवृत्तवृन्तरुचिरं पद्यात्मकं सत्फलं लेभे भोक्तुमनोतिसत्तमशुकैरास्वाद्यमानं मुहुः ॥ ८॥ येनौनत्यमवापिता कृतपदा कामं क्षमायामियं निःश्रेणिः पदमुन्नतं जिगमिषोोम स्पृशन्ती परम् । वंश्या काप्यधरीकृतत्रिभुवनश्रेणी गुरूणां कथं सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥ ८१॥ अथ तोटकवृत्तपद्यजातैरयमज्ञातसुपर्वसूक्तिकोपि । दययैव गुरोस्त्रयीशिरोऽथं स्फुटयनैक्षि वि...

श्रीमच्छङ्करदिग्विजयः - द्वादश सर्ग:- हस्तामलकादीनां शिष्यत्वेन ग्रहणम् - 168

भक्त्युत्कर्षात प्रादुरासन्यतोऽस्मात्पधान्येवं तोटकाख्यानि सन्ति । तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्यं मुनीन्द्रम् ।। ८४ ।। अद्यापि तत्प्रकरणं प्रथितं पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति ।। शिष्टगृहीतमतिशिष्टपदानुविद्धं वेदान्तवेद्यपरतत्वनिवेदनं यत् ॥ ८५ ॥ तोटकाह्वयमवाप्य महर्षेः ख्यातिमाप स दिशासु तदादि । पद्मपादसदृशप्रतिभावान्मुख्यशिष्यपदवीमपि ले मे ॥ ८६ ॥ पुमर्थाश्चत्वारः किमुत निगमा ऋक्प्रभृतयः प्रभेदा वा मुक्तेविमलतरसालोक्यमुखराः । मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा विदुः शिष्यान् हस्तामलकमुखराञ्छङ्करगुरोः ॥ ८७॥ स्कारद्वारप्रधाणद्विरदमदसमुल्लोलकल्लोलभृङ्गी- सङ्गीतोल्लासभङ्गीमुखरितहरितः संपदोऽकिपचानैः। निठीव्यन्तेऽतिदुरादधिगतभगवत्पादसिद्धान्तकाष्ठा- निष्ठासम्पद्विजृम्भनिरवधिसुखदस्वात्मलाभकलोभैः ॥ ८८! समिन्धानो मन्थाचलमथितसिन्धूदरभव- सुधाफेनामेनामृतरुचिनिभेनाऽत्मयशसा । निरन्धानो दृष्टया परमहह पन्थानमसतां पराधृष्यैः शिष्यैररमत विशिष्यैष मुनिराट् ॥ ८९ ॥ इति श्रीमाधवीये तद्धस्तधान्यादिसंश्रयः संक्षेपशङ्करजये सर्गोऽयं द्वादशोऽभवत् ॥ (आदितः श्लोकाः-१३१२)

श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 169

ततः कदाचित् प्रणिपत्य भक्त्या सुरेश्वरार्यो गुरुमात्मदेशम् शारीरकेऽत्यन्तगभीरभावे वृत्तिं स्फुट कर्तुमना जगाद ॥१॥ मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् । तदिदं पुरुषस्य जीवितं यदयं जीवति भक्तिमान गुरौ॥ २ ॥ इतीरिते शिष्यवरेण शिष्यं प्रोचे गरीयानतिहृष्टचेताः । मत्कस्य भाष्यस्य विधेयमिष्टं निवन्धनं वार्तिकनामधेयम् ॥३॥ द्रष्टुं सतर्क भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः । तथाऽपि भावत्ककटाक्षपाते यते यथाशक्ति निवन्धनाय ॥४॥ अस्त्वेवमित्यार्यपदाभ्यनुज्ञामादाय मूर्ना स विनिर्जगाम । अथाम्बुजाङ्ग्रेर्दयिताः सतीर्थ्यास्तं चित्सुखाद्या रहसीत्थमूचुः ॥५॥ योऽयं प्रयत्नः क्रियते हिताय हिताय नायं विफलत्वनर्थम् । प्रत्येकमेवं गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥ ६॥ यः सार्वलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः । कमैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशितेति ॥ प्रत्येकमस्य प्रलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता । व्यासो मुनि मिनिरस्य शिष्यस्तत्पक्षपाती प्रलयावलम्बी॥८॥ गुरोध शिष्यस्य च पक्षभेदे कथं तयोः स्याद्गुरुशिष्यभावः । तथापि यद्यस्ति स पूर्वपक्षः सिद...

श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 170

आ जन्मनः स खलु कर्मणि योजितात्मा कुर्वन्नवास्थित इहानिशमेव कर्म। ब्रूते परांश्च कुरुतावहिताः प्रयत्नात स्वर्गादिकं सुखमवाप्स्यथ किं वृथाध्वे ॥ १० ॥ एवंविधेन क्रियते निवन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके । भाष्यं परं कर्मपरं स योक्ष्यते मा च्यावि मूलादपि वृद्धिमिच्छता ॥ संन्यासमप्येष न बुद्धिपूर्वकं व्यधत्त वादे विजितो वो व्यधात् । तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ।। यः शक्नुयात् कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति । यद्यस्ति संन्यासविधौ दुराग्रहो जात्यन्धमूकादिरमुष्य गोचरः ॥१३॥ एवं सदा भट्टमतानुसारिणो ब्रुवन्त्यसौ तन्मतपक्षपातवान् । एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निर्वन्धनमत्र किञ्चन। पुरा किलास्मासु सुरापगायाः पारे परस्मिन् विचरत्सु सत्सु । आकारयामास भवानशेषान् भक्ति परिज्ञातुमिवास्मदीयाम् ।। १५ ॥ तदा तदाकये समाकुलेषु नावर्थमस्मासु परिभ्रमत्सु । सनन्दनस्त्वेष वियत्तटिन्या झरीमभिप्रस्थित एव तूर्णम् ॥ १६ ॥ अनन्यसाधारणमस्य भावमाचार्यवर्ये भगवत्यवेक्ष्य । तुष्टा त्रिवा कनकाम्बुजानि प्रादुष्करोति स्म पदे पदे च ।। १७ ॥ पदानि तेषु प्रणिधाय युष्मत...

श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 171

यद्वाऽयमानन्दगिरिर्यदुग्रतपःप्रसन्ना परमेष्ठिपनी । भवत्प्रबन्धेषु यथाभिसन्धि ब्याख्यानसामर्थ्यवरं दिदेश ॥ २० ॥ कर्मे कतानमतिरेप कथं गुरो ते विश्वासपात्रमवपद्यत विश्वरूपः । भाष्यस्य पनपद एव करोतु टीकामित्यूचिरे रहसि योगिवरं विधेयाः॥ अवान्तरेऽभ्यर्णगतः स तूर्णं सनन्दनो वाक्यमुदाजहार । आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥ २२ ॥ यतः करस्थामलकाविशेष जानाति सिद्धान्तमसावशेषम् । अतो ह्यमुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ॥ २३ ॥ वाणी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकुदावभाषे। नैपुण्यमन्यादृशमस्य किन्तु समाहितत्वान्न बहिःप्रवृत्तिः ॥ २४॥ अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि । न चोपनीतोऽपि गुरोः सकाशादध्यैष्ट वेदान् परमार्थनिष्ठः ॥ २५ ॥ बालै चिक्रीड न चानमैच्छन्न चारुवाचं ह्यवदत् कदापि । निश्वित्य भूतोपहत तमेनमानिन्यिरेऽस्मन्निकटं कदाचित् ।। २६ ।। अस्मानवेक्ष्यैव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् । इमामपूर्वां प्रकृति विलोक्य वितिष्मिये तत्र जनः समेतः ॥ २७ ।। कस्त्वं शिशो कस्य सुतः कुतो वेत्यस्माभिराचष्ट किलैष पृष्टः। आत्मानमानन्दघनस्वरूपं विस्म...

श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 172

आ जन्मनः संसृतिपाशमुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव । प्रफुल्लराजीवाने विहारी कथं रमेत क्षुरके मरालः ।। विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदाप्रभृत्यत्र वसत्युदारः। आ शैशवादात्मविलीनचेताः कथं प्रवर्तेत महाप्रबन्धे ॥३२॥ श्रुत्वेति पप्रच्छुरमुं विनेयाः स्वामिन् विनव श्रवणायुपायैः । अलन्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ।। ३३॥ तानत्रवीत् संयमिचक्रवर्ती कश्चित् पुरा यामुनतीवर्ती । बभूव सिद्धः किल साधुवृत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥ ३४ ॥ तस्यान्तिके काचन विप्रकन्या द्विहायनं जातु निवेश्य बालम् । क्षगं प्रतीक्षस्व शिशु द्विजेति स्नातुं सखीभिः सह निर्जगाम ॥ ३५ ॥ अनान्तरे दैववशात्स बालश्च इन्क्रम्पमागो निपपात नद्याम् । मृत तमादाय शिशुं तदीयाचक्रन्दुरुचैः पुरतो महर्षेः ।। ३६ ॥ आक्रोशमाकर्य मुनिः स तेषामत्यन्जखिनो निजयोगभूम्ना । प्राविक्षदङ्गं पृथुकस्य तस्य स एष हस्तामलकस्तपस्वी ॥ ३७॥ तस्मादयं वेद विनोपदेशं श्रशीरनन्ताः सकलाः स्मृतीश्च । सर्वाणि शास्त्राणि परं च तत्वमज्ञातमेतेन न किञ्चिदस्ति ॥ ३८॥ तत्ताहगात्मा न बहिःप्रवृत्तो नियोगमहत्ययमत्र वृत्तौ। स मण्डनस्त्वर्हति बुद्धतत्...

श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 173

भवनिदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् । स ब्रह्मचर्यादुररीकृताश्रमो मतिप्रकों विदितो हि सर्वतः ॥ ४२ ॥ सनन्दनो नन्दयिता जनानां निवन्धमेकं विदधातु भाष्ये । न बार्तिकं तत्तु परप्रतिज्ञ व्यधात् प्रतिज्ञां स हि नूनदीक्षः ॥ ४३ ॥ आदिश्येत्थं शिष्यसङ्घ यतीन्द्रः प्रोवाचेत्य नूनमिर्धा रहस्तम् । भाष्ये भिक्षो मा कथा वार्तिकं त्वं नेमे शिष्याः सेहिरे दुर्विदग्धाः ।। तात्पर्य ते गेहिधर्मेषु दृष्ट्वा तत्संस्कारं सांप्रतं शङ्कमानाः। भाष्ये कृत्वा वार्तिक योजयेत्स भाष्यं प्राहुः स्वीयसिद्धान्तशेषम् ।। नास्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः । द्वारि द्वास्थैर्वारिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ।। ४६ ॥ इत्याद्यां तो किंवदन्ती विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनल्पे । स्वातन्त्र्याचं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥ विद्धन् यत्प्रत्ययः स्यादनीषां शिष्याणां नो ग्रन्थसंदर्शनेन । इत्युक्त्वेनं वार्तिक सूत्रभाष्ये नाभूद्धाहेत्याप खेदं च किञ्चित् ॥४८॥ शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा- वेनं स्वतन्त्रकृतिनिर्मितये न्ययुङ्क्त । नैष...

श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 174

यत्राद्यापि श्रूयते मस्करीन्द्रनिष्कर्माऽऽत्मा यत्र नैष्कर्म्यसिद्धिः । तमानाऽयं ववृधे ग्रन्थवर्यस्तन्माहात्म्यात् सर्वलोकादृतोऽभूत् ॥५२॥ आचार्यवाक्येन विधित्सितेऽस्मिन् विनं यदन्ये व्यधुरुत्ससर्ज। शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम् ॥ ५३॥ नैष्कर्म्यसिद्धयाख्यनिबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा । विश्वासमुक्त्वाऽथ पुनर्वभाषे स विश्वरूपो गुरुमात्मदेवम् ॥ ५४॥ न ख्यातिहेतोन च लाभहेतो प्यर्चनायै विहितः प्रबन्धः। नोल्लचनीयं वचनं गुरूणां नोचने स्याद्गुरुशिष्यभावः ॥ ५५ ॥ पूर्व गृहित्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् । न यौवनं वृद्धमुपैति तद्वत् वजन् हि पूर्वस्थितिमोज्झ्य गच्छेत् ॥ अहं गृही नात्र विचारणीयं किं ते न पूर्व मन एव हेतुः। वन्धे च मोक्षे च मनोविशुद्धो गृही भवेद्वाऽप्युत मस्करी का ॥ ५७ ॥ नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्प्राशिनिवृत्तिगामिनी । प्रतिश्रवौ नौ कथमल्पकालो न हि प्रतिज्ञा भगवनिरुद्धा॥५८॥ संभिक्षमाणा न लभन्त एव चेद्गृहप्रवेशं गुरुणा प्रवेशनम् । कथं हि भिक्षा विहिता ननूत्तमा को नाम लोकस्य मुखापिधायकः ॥ तत्वोपदेशाद्...

श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 175

सिक्त्वा सूक्तामृतौधरहह परिहसञ्जीवयस्यद्य सयः को वा सेवापटुः स्याद्रणतरणविधौ सद्गुरोर्नैव जाने ॥२॥ इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके नो संभाव्यहहात्र वार्तिकमिति प्रौढं शुगनि शनैः । धीराग्रयः शमयन्विवेकपयसा देवेश्वरेण त्रयी- भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभून्मुनिः ॥ ६३ ॥ भावानुकारिमृदुवाक्यनिवेशितार्थ स्वीयैः पदैः सह निराकृतपूर्वपक्षम् । सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं दृष्ट्वाऽभिनन्ध परितोषवशादवोचत् ॥ सत्यं यदात्य विनयिन् मम याजुषी या शाखा तदन्तगतभाष्यनिबन्ध इष्टः। तद्वार्तिकं मम कृते भवता प्रणेयं सञ्चेष्टितं परहितैकफलं प्रसिद्धम् ॥ ६५ ॥ तस्वदीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् । नद्वार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ।। ६६ ॥ तत्रोभयत्र कुरु वार्तिकमातिहारि कीति च याहि जितकार्तिकचन्द्रिकामाम् । मा शङ्कि पूर्वमिव दुःशठवाक्यरोधो मद्वाक्यमेव शरणं व्रज मा विचारीः ॥ ३७॥ इत्यं स उक्तो भगवत्पदेन श्रीविश्वरूपो विदुषां वरिष्ठः । चकार भाष्यद्वयवार्तिके द्वे ह्याज्ञा गुरूणां ह्यविचारणीया ।। ६८ आज्ञा गुरोरनुचरैन हि लङ्घनीयेत्युक्त्वा तयोनिगमशेखरयोरु...

श्रीमच्छङ्करदिग्विजयः - त्रयोदश सर्ग:- ब्रह्माधिचापचारः- 176

सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टीका व्यधितेरितः पराम् । यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥७॥ व्यासर्षिमूत्रनिचयस्य विवेचनाय टीकाभिधं विजयडिण्डिममात्मकीतः । निर्माय पद्मचरणो निरवद्ययुक्तिदृब्धं प्रबन्धमकरोद्गुरुदक्षिणां सः॥ आलोचयनथ तदा नु गति ग्रहांगामूचे सुरेश्वरसमाहमुपह्वरे सः । पञ्चैव वत्स चरणाः प्रथिता इह स्युस्तत्रापि सूत्रयुगलद्वयमेव भूना ॥ प्रारब्धकर्मपरिपाकवशात् पुनस्त्वं वाचस्पतित्वमधिगम्य वसुन्धरायाम् । भव्या विधास्यसितमां मम भाष्यटीका- माभूतसंलयमधिक्षिति सा च जीयात् ।। ७३ ।। इत्येवमुक्त्वाऽथ यतीश्वरोऽसावानन्दगिर्यादिमुनीन् स इत्वा । कुरुष्वमद्वैतपरानिवन्धानित्यन्वशानिर्ममसार्वभौमः ॥ ७४ ।। ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दो- रानन्दाचलमुखरा महानुभावाः। आतेनुर्जगति यथास्वमात्मतत्त्वा- म्भोजानि विशदतरान् बहूनिवन्धान् ॥ ७५ ॥ इति श्रीमाधवीये तद्वार्तिकान्तप्रवर्तनः । संक्षेपशङ्करजये पूर्णः सर्गस्त्रयोदशः ।।

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 177

॥ चतुर्दशः सर्गः ॥ (पक्षपादतीर्थयात्रावर्णनम् ) अथाजपात कर्तुमनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् । देया गुरो मे भगवन्ननुज्ञा देशान् दिदृक्षे बहुतीर्थयुक्तान् ।। १॥ स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयाधिजलं च तीर्थम् । गुरूपदेशेन यदात्मदृष्टिः सैव प्रशस्ताऽखिलदेवदृष्टिः ॥२॥ शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे । विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥३॥ द्विधा हि संन्यास उदीरितोऽयं विबुद्धतच्चस्य च तद्बुभुत्सोः । तत्चपदार्थैक्य उदीरितोऽयं यत्नात्वमर्थः परिशोधनीयः ॥ ४ ॥ संभाव्यते क च जलं क्व च नास्ति पाथ: शय्यास्थलं क्वचिदिहास्ति न च क चास्ति । शय्यास्थलीजलनिरीक्षणसक्तचेताः पान्थो न शर्म लभते कलुषीकृतात्मा ॥५॥ ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः। स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुञ्चतीमम् ॥६॥ स्नानं प्रभाते न च देवतार्चनं क चक्तशौचं क वा समाधयः । क्क चाशनं कुत्र च मित्रसङ्गतिः पान्थो न शाकं लभते क्षुधातुरः ।। नास्त्युत्तरं गुरुगिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान् गुरुपार्श्ववासः। श्रेयानिति प्रथमसंयमिनामनेकान् देशान...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 178

सर्वत्र न कापि जलं समस्ति पश्चात् पुरस्तादथवा विदिक्षु । मार्गो हि विद्येत न सुव्यवस्थः सुखेन पुण्यं व नु लभ्यतेऽधुना ॥९॥ जन्मान्तरार्जितमपं फलदानहेतो- याध्यात्मना जनिमुपैति न नो विवादः। साधारणादिह च वा परदेशके वा कर्म भुक्तमनुवर्तत एव जन्तुम् ॥ १० ॥ इह स्थितं वा परतः स्थितं वा कालो न मुञ्चत् समयागतश्चेत् । तद्देशगत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥ ११ ॥ मन्वादयो मुनिवराः खलु धर्मशास्त्रे धर्मादि संकुचितमाहुरतिप्रवृद्धम्। देशाद्यवेक्ष्य न तु तत्सरणि गतानां शौचायतिक्रमकृतं प्रभवेदधं नः ॥ देवेऽनुकूले विपिनं गतो वा समाप्नुयाद्वाञ्छितमन्नमेषः । हियेत नश्येदपि वा पुररस्थं तस्मिन् प्रतीपे तत एव सर्वम् ॥ १३ ॥ गृहं परित्यज्य विदेशगो ना सुखं समागच्छति तीर्थदृश्वा । गृहं गतो याति मृति पुरस्तात्तदागमादल च किं निमित्तम् ॥१४॥ देशे कालेऽवस्थित तद्विमुकं ब्रह्मानन्दं पश्यतां तत्र तत्र । चित्तैकाग्रये विद्यमाने समाधिः सर्ववासौ दुर्लभो नेति मन्ये ॥ १५ ॥ सत्तीर्थसेवा मनसः प्रसादिनी देशस वीक्षा मनसः कुतूहलम् । क्षिणोल्यनर्थात् सुजनेन सङ्गमस्तस्मात्र कस्मै भ्रमणं विरोचते ॥१६॥ अटाट्यमानोऽपि विदेशस...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 179

सुजनः सुजनेन संगतः परिपुष्णाति मतिं शनैः शनैः । परिपुष्टमतिर्षिवेकवाञ्शनकहेंयगुणं विमुञ्चति ॥ १९ ॥ यद्याग्रहोऽस्ति तव तीर्थनिषेवणायां विघ्नो मयाऽत्र न खलु क्रियते पुमर्थे । चित्तस्थिरत्वगतये विहितो निषेधो मा भूद्विशेषगमनं त्वतिदुःखहेतुः ॥ २० ॥ नैको मार्गो बहुजनपदक्षेत्रतीर्थानि याता चौराध्वानं परिहर सुखं स्वन्यमार्गेण याहि । विप्राप्रयाणां वसतिविततिर्यत्र वस्तव्यमीष. ओ चेत्सार्ध परिचितजनैः शीघ्रमुद्दिष्टदेशम् ॥ २१ ॥ सद्धिः सङ्गो विधेयः स हि सुखनिचय सूयते सजनाना. मध्यात्मैक्ये कथास्ता घाटेतबहुरसाः श्राव्यमाणाः प्रशान्तः । कायक्लेशं विभिन्द्युः सततभयभिदः श्रान्तविश्रामवृक्षाः खान्तश्रोत्राभिरामाः परिमृषिततृषः क्षोभितक्षुत्कलङ्काः ॥ २२ ।। सत्सङ्गोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो यत् स्वान्तेऽयं तपति च परं सूयते दुःखजालम् । खल्वासङ्गो वसतिसमये शर्मदः पूर्वकाले प्रायो लोके सततविमलं नास्ति निर्दोषमेकम् ।। २३ ॥ मार्गे यास्सन्न बहुदिवसान पाथसः संग्रही सा- त्तस्मादोषो जिगमिषुपदप्राप्तिविघ्नस्ततः स्यात् । प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस सिद्धे. मलाभ्रंशोऽभिलषितपदप्राप्त्यभावोऽन्यथा हि ॥ २...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 180

मार्गे चोरा निकृतिवषुषः संवसेयुः सहैव छन्नात्मानो बहुविधगुणैः संपरीक्ष्याः प्रयत्नात् । देवान् वस्त्रं लिखितमथवा दुर्विधा नेतुकामा विश्वासोऽतोऽपरिचितनृषु प्रोज्झनीयो न कार्यः ।।२५।। मध्येमार्ग योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भिक्षवस्तेऽभिगम्याः । पूज्याः पूज्यास्तद्वयतिक्रान्तिरुपा श्रेयस्कार्य निष्फलीकर्तुमीशाः॥ यदापदपदं सदा यतिवर स्थितं वस्तु त- न्मतं भज मितपचान् मनसि मा कृथाः प्राकृतान् । कपायकलुषाशयक्षतिविनिर्वृतः सन्मतः सुखी चर मुखे चिरात् स्फुरति संततानन्दता ॥ २७ ॥ इत्थं गुरोर्मुखगुहोदितवाक्सुधां ता- मापीय हृष्टहृदयः स मुनिः प्रतस्थे । प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराधैः कालं कियन्तमनयत् सह शृङ्गकुधे ।। २८ ॥ अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽअवेभ्यः । अवलम्बिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥ २९ ॥ तत्राऽऽतुरां मातरमैक्षातौ ननाम तस्याश्वरगौ कृतात्मा । सा चैनपुदीक्ष्य शरीरतापं जहौ निदाघात इवाम्बुदेन ॥ ३० ॥ असावसङ्गोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता । अम्पायमस्त्या शुचं जहीहि प्रवहि किं ते करवाणि कृत्यम् ॥ ३१ ॥ दृष्टा चिरात् पुत्रमनामयं सा हृष्टान्तरात्मा निजग...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 181

अस्यां दशायां कुशली मया वं दिष्टयाऽसि दृष्टः किमतोऽस्ति कृस्यम् ॥ ३२॥ इतः परं पुत्रक गात्रमेतद्वोढुं न शक्नोमि जरातिशीर्णम् । संस्कृत्य शास्त्रोदितवर्मना त्वं सद्वृत्त मां प्रापय पुण्यलोकान् । सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्यै सुखरूपमेकम् । मायामयाशेषविशेषशून्यं मानातिगं स्वप्रभमप्रमेयम् ॥ ३४ ।। उपादिशब्रह्म परं सनातनं न यत्र हस्ताधिविभागकल्पना । अन्तर्बहिः संनिहितं यथाम्बरं निरामयं जन्मजरादिवर्जितम् ॥ ३५ ॥ सौम्यागुणे मे रमते न चित्तं रम्यं वद त्वं सगुणं तु देवम् । न बुद्धिमारोहति तत्त्वमात्रं यदेकमस्थूलमनण्वगोत्रम् ॥ ३६॥ निशम्य मातुर्वचनं दयालुस्तुष्टाव भक्त्या मुनिरष्टमूर्तिम् । वृत्तैर्युजङ्गोपपदैः प्रसन्नः प्रस्थापयामास स च स्वदूतान् ।। ३७ ॥ विलोक्य तान्शूलपिनाकहस्तान्नैवानुगच्छेयमिति अवन्त्याम् । तस्यां विसृज्यानुनयेन शैवानस्तौदथो माधवमादरेण ॥ ३८ ॥ भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पिताङ्घ्रिपद्यम् । अभिवीजितमादरेण नीलावसुधाभ्यां चलमानचामराभ्याम् ॥ ३९ ।। विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन । धृतमूर्तिभिरखदेवताभिः परितः पञ्चभिरश्चितोपकण्ठम् ॥ ४ ॥ महनीयतम...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 182

चित्तेन कञ्जनयन हृदि भावयन्ती तत्याज देहमवला किल योगिवत्सा ॥ ४२ ॥ ततः शरचन्द्रमरीचिरोचिर्विचित्रपारिप्लवकेतनाढ्यम् । विमानमादाय मनोज्ञरूपं प्रादुर्बभूवुः किल विष्णुदूताः ॥ ४३ ॥ बैमानिकांस्तानयनाभिरामानवेक्ष्य हृष्टा प्रशशंस पुत्रम् । विमानमारोप्य विराजमानमनायि तैः सा बहुमानपूर्वम् ॥ ४४ ।। इयमचिरहर्वलक्षपक्षान् षड्दमाससमानिलार्कचन्द्रान् । चपलावरुणेन्द्रधातृलोकान् क्रमशोऽतीत्य परं पदं प्रपेदे ॥ ४५ ॥ स्वयमेव चिकीर्षुरेष मातुश्चरमं कर्म समाजुहाव बन्धून् । किमिहास्ति यते तवाधिकारः किनवेत्येनममी निनिन्दुरुच्चैः ॥ ४६॥ अनलं बहुधाऽर्थिताऽपि तस्मै वत नाऽऽदत्त च बन्धुता तदीया। अथ कोपपरीवृतान्तरोऽसावखिलास्तानशपञ्च निर्ममेन्द्रः ॥४७॥ संचित्य काष्ठानि सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः । स दक्षिणे दोष्णि ममन्थ वह्निं ददाह तां तेन च संयतात्मा ॥४८॥ न याचिता वह्निमदुर्यदस्मै शशाप तान् स्वीयजनान् सरोषः । इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेञ्च भिक्षा ॥४९॥ गृहोपकण्ठेषु च वः श्मशानमद्यप्रभृत्यस्त्विति तान् शशाप । अद्यापि तद्देशभवा न वेदमधीयते नो यमिनां च भिक्षा ॥५॥ तदाप्रभृत्येव गृहोपकण्ठेष्वास...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 183

शीतः सुखोऽपि मथितः किल चन्दनद्रु- स्तीबाहुताशजनको भवति क्षणेन ।। ५२ ॥ यद्यप्यशास्त्रीयतया विभाति तेजस्विनां कर्म तथाऽप्यनिन्द्यम् । विनिन्द्यकृत्यं किल भार्गवस्य ददुः स्वपुत्रान् कतिचिढकाय ।। ५३॥ इति स्वजननीमसौ मुनिजनैरपि प्रार्थितां पुनः पतनवर्जितामतनुसौरच्यमन्दोहिनीम् । यतिक्षितिपतिगति वितमसं स नीत्वा तत- स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥ ५४॥ अथ तत्सहायजलजांघ्रथुपागमेच्छुरभीप्सितेऽत्र विललम्ब एषकः । जलजांघ्रिरप्यथ पुरा निजाज्ञया कृतवानुदीच्यवहुतीर्थसेवनम् ॥ ५५॥ आसमाद शनर्दिशं मुनेयस्य जन्म वसुधाघटी स्मृता। सा श्रुतिः सकलरोगनाशिनी योऽपिचजलधिमेकबिन्दुवत् ॥ ५६ ।। अद्राक्षीत्सुभगाहिभूषिततर्नु श्रीकालहस्तीश्वरं लिङ्गे सन्निहितं दधानमनिशं चान्द्री कलां मस्तके। पार्वत्या करुणारसामनसाऽऽश्लिष्टं प्रमोदास्पदं देवैरिन्द्रपुरोगमैजय जयेत्याभाष्यमाणं मुनिः ॥ ५७ ॥ स्नात्वा सुवर्णमुखरीसलिलाशयेऽन्त- गत्वा पुनः प्रणमति स्म शिवं भवान्या । आनर्च भावकुसुमैर्मनसा नुनाव स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥५८॥ लब्ध्वाऽनुज्ञां तज्ज्ञराट् कालहस्तिक्षेत्रात् काञ्चीक्षेत्रमागात्पवित्रम् । संसाराब्धि सं...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 184

ततकाम्राधीश्वरं विश्वनाथ नत्वा गम्यं स्वीयभाग्यातिशीत्या। देवी धामान्तर्गतामन्तकारेहदि रुद्रस्येव जिज्ञासमानाम् ॥६॥ कल्लालेशं द्राक्ततो नातिदूरे लक्ष्मीकान्तं संवसन्तं पुराणम् । कारुण्याद्रस्वान्तमन्तादिशून्यं दृष्टा देवं संतुतोषैकभक्त्या ॥१॥ पुण्डरीकपुरमाययौ मुनियंत्र नृत्यति सदाशिवोऽनिशम् । वीक्षते प्रकृतिरादिमा हृदा पार्वतीपरिणतिः शुचिस्मिता ॥ ६२ ॥ ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् । जन्ममृत्युभयभेदि दर्शनानेत्रमानसविनोदकारकम् ।। ६३ ॥ कि चात्र तीर्थमिति भिक्षुगणेन कश्चिन् पृष्टोऽब्रवीच्छिवपदाम्बुजसक्तचित्तः । संप्रार्थितः करुणयाऽस्मरदत्र गङ्गा देवोऽथ संन्यधित दिव्यसरित् सुतीर्थम् ॥ ६४ ॥ शिवाज्ञयाऽभूदिति तीर्थमेतच्छिवस्य गङ्गां प्रवदन्ति लोके। स्नानादमुध्यां विधुतोरुपापाः शनैः शनैस्ताण्डवमीक्षमाणाः ॥५॥ शिवस्य नाट्यश्रमकर्शितस्य श्रमापनोदाय विचिन्तयन्ती। शिवेति गङ्गापरिणामगाऽभूत्ततोऽथवैतत्प्रथितं तदाख्यम् ॥ ६६ ।। नृत्यत्तीरहतस्खलजलगतेः पर्यापतद्विन्दुकं पावें स्वाव मतेविनोदवशतो यजनुकन्यापयः। नृत्यं तन्वति धूर्जटौ विगलितं प्रेङ्खजटामण्डला- तेनैतच्छिवजाह्नवीति कथयन्त्य...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 185

शुद्धं महवर्णयितुं क्षमेत पुण्यं पुरारिः स्वयमेव तस्य । निमज्ज्य शम्भुधुसरित्यमुष्यां दाक्षायणीनाथमुदीक्षते यः॥ ६९ ॥ इतीरितः शङ्करयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे । तीर्थ तदाप्लुत्य ननाम शम्भोरधि जितात्मा भुवनस्य गोप्तुः ।। रामसेतुगमनाय संदधे मानसं मुनिरनुत्तमः पुनः । वर्त्मनि प्रयतमानसो व्रजन संददर्श सरितं कवेरजाम् ।। ७१॥ यत्पवित्रपुलिनस्थलं पयःसिन्धुवासरसिकाय विष्णवे । अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ।। ७२ ॥ सह्यपर्वतसुतातिनिर्मलाम्भोभिषिक्तभगवत्पदाम्बुजे । आकलय्य बहुशिष्यसंवृतः प्रास्थिताभिरुचितस्थलाय सः ॥७३॥ गच्छन् गच्छन् मार्गमध्येऽभियातं गेहं भिक्षुर्मातुलसाऽऽजगाम । दृष्ट्वा शिष्यैस्तं चिरेणाभियातं मोदं प्रापन्मातुलः शास्त्रवेदी ॥ ७ ॥ शुश्राव त बन्धुजनः सशिष्यं स्वमातुलागारमुपेयिवांसम् । आगत्य दृष्ट्वा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ।। ७५ ॥ रुरोद कश्चिन्मुमुदेव कश्चिजहास पूर्वाचरितं बभाषे। कश्चित्प्रमोदातिशयेन किञ्चिद्वचः स्खलद्गीः प्रणनाम कश्चित् ॥ ७६॥ ऊवेऽथ तं ज्ञातिजनः प्रमोदी दृष्ट्रा चिरायाक्षिपथं गतोऽभूः। दिदृक्षते त्वां जनताऽतिहात्तिथापि शक्नोषि न वीक...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 186

 कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु । क देवतार्चा क च तीर्थयात्रा क्व वा निषेवा महतां भवेत्रः ॥८॥ अश्रौष्म संन्यासकृतं भवन्तं विप्रात् कुतश्चिद्गृहमागतानः । कालोऽत्यगात्ते बहुरद्य दैवात्तीर्थस्य हेतोर्गृहमागतस्त्वम् ॥ ८१ ॥ यथा शकुन्ताः परवर्धितान् दुमान् समाश्रयन्ते सुखदांस्त्यजन्त्यपि । परप्रक्लमान् मठदेवतागृहान्यतिः समाश्रित्य तथोज्झति ध्रुवम् ।।२।। यथा हि पुष्पाण्यभिगम्य षट्पदाः संगृह्य सारं रसमेव भुञ्जते । तथा यतिः सारमवाप्नुवन सुखं गृहाद्गृहादोदनमेव भिक्षते ॥ ८३॥ यतेविरज्यात्मगतिः कलत्रं देहं गृहं संयतमेव सौख्यम् । विरक्तिभाजस्तनयाः स्व शिष्याः किमर्थनीय यतिनो महात्मन् ॥ ८४॥ मनोरथानां न समाप्तिरिष्यते पुनः पुनः संतनुते मनोरथान् । दारानभी मुर्यतते दिवानिशं तान् प्राप्य तेभ्यस्तनयानभीप्सति ।। अनाप्नुवन् दुःखमसौ सुतीनं प्रामोति चेष्टेन वियुज्यते पुनः । सर्वात्मना कामवशस्य दुःखं तस्माद्विरक्तिः पुरुषेण कार्या ॥ ८६ ॥ विरक्तिमूलं मनसो विशुद्धि तन्मूलमाहुमहतां निषेवाम् । भवाशास्तेन च दूरदेशे परोपकाराय रसामठन्ति ।। ८७ ॥ अज्ञातगोत्रा विदितात्मतत्त्या लोकस दृष्ट्या जडवद्व...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 187

कोशं क्लेशमलस्य लास्यगृहमप्युदंहसामालयं पैशुन्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् । हिंसामांसलमाश्रिता घनघनाशंसानृशंसा वयं वयं दुर्जनसङ्गमं करुणया शोध्या यतीन्दो त्वया ॥ ९१॥ संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि । इष्टसङ्गतिनिवृत्तिकालयोनिर्विकारहृदयो भवेन्नरः ॥ ९२ ॥ मध्याह्नकाले क्षुधितस्तृषार्तः क्व मेऽनदातेति वदन्नुपैति । यस्तस्य निर्वापयिता क्षुधार्तेः कस्तस्य पुण्यं वदितुं क्षमेत ।। ९३॥ सायं प्रातर्वहिकार्य वितन्वन् मजस्तोये दण्डकृष्णाजिनी च । नित्यं वर्णी वेदवाक्यान्यधीयन् क्षुद्ध्वा शीघं गेहिनो गेहमेति ।। उच्चैः शास्त्रं भाषमाणोऽपि भिक्षुस्तारं मन्त्रं संजपन्वा यतात्मा । मध्येधलं जाठराग्री प्रदीप्त दण्डी नित्यं गेहिनो गेहमेति ॥ ९५ ॥ यदन्नदानेन निजं शरीरं पुष्णस्तपोऽयं कुरुते सुतीव्रम् । कनुस्तदधं ददतोऽन्नमधमिति स्मृतिः संववृतेऽनवद्या ॥ ९६ ॥ पुण्यं गृहस्थेन विचक्षणेन गृहेषु संचेतुमलं प्रयासात् । विनाऽपि तत्कनिषेत्रणेन तीर्थादिसेवा बहुदुःखसाध्या ।। ९७ ।। गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे । चौर्येण कश्चित्प्रणयेन कश्चिदानेन कश्चिदलतोऽपि कश्चित् ॥९८ ।। सं...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 188

गृही गृहस्थोऽपि तदश्नुते फलं यत्तीर्थसेवाभिरवाप्यते जनः । तत्तस तीर्थ गृहमेव कीर्तित धनी वदान्यः प्रवसेन कश्चन ॥ ११ ॥ अन्तःस्थिता म्पकमुख्यजीवा बहिः स्थिता गोमृगपक्षिमुख्याः । जीवन्ति जीवाः सकलोपजीव्यस्तस्माद्गृही सर्ववरो मतो मे ।। १०२ ।। शरीरमूलं पुरुषार्थसाधनं तच्चानमूलं श्रुतितोऽवगम्यते । तच्चान्नमस्माकममीषु संस्थितं सर्वे फलं गेहपतिदुमाश्रयम् ।। १०३।। ब्रवीमि भूयः ऋणुताऽऽदरेण को गृहागतं पूजयताऽऽतुरातिथिम् । संपूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात् कि भवतीति नोच्यते ॥ विनाऽभिसन्धि कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः। तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण वः॥ ससंरम्भश्लिष्यत्सुफणितिवधूटीकुचतटी- पटीवत्पाटीरागरवनवपङ्काङ्कितहृदः । तथाऽप्यते पूता यतिपतिपदाम्भोजभजन- क्षणक्षीणक्लेशाः सदयहृदयाभाः सुकृतिनः ।। १०६॥ संदिश्यत्यं बन्धुतां भिक्षुराजो भिक्षा चक्रे मातुलस्यैव मेहे। पप्रच्छेनं मातुलो भुक्तवन्तं किंस्विच्छनं पुस्तकं शिष्यहस्ते ॥ १७॥ टीका विद्वन् भाष्यगेति ब्रुवाणं तां देहीति प्रोचिषे दक्षवांश्च । अद्राक्षीचां मातुलस्तस्य बुद्धि रष्ट्वाऽऽनन्दीत् खेदमापच ...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 189

सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेत्र जीवः । विद्वन् यद्वगोगृहादौ परेषां प्रीतिः पूर्णा नस्तथा पुस्तभारे ॥११॥ इत्युक्त्वा तर्मातुलं मस्करीशः शिष्यैर्हष्यन् सेतुमेष प्रतस्थे । प्रस्थातुः श्रीपद्मपादस्य जातं कष्टं चैप्यत्सूचनायै निमिजम् ।। ११२ ॥ वाम नेत्रं गन्तुरस्पन्दव बाहुः पुस्कोरापि वामस्तथोरुः । चुक्षावोचैहेन्त कश्चित्पुरस्तात्तत्स द्राशोऽगणित्वा जगाम ।। १३॥ गतेत्र मेन मिल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन् गुरुपक्षहानिः । दग्धेऽत्र जायेत महान् प्रचारो नोक्त्या निराकमपि प्रभुत्वम् ॥१४॥ पक्षस नाशाद्गृहनाश एवं नो वरं गृहेगैव दहामि पुस्तकम् । एवं निरूप्प न्यधाधुताशन चुनोश चाग्निदहताति मे गृहम् ।। ऐतिह्यमाश्रित्य वदन्ति चैवं तदेव मू मम भाषणेऽपि । यावत्कृत ताबादेहास्य कः पाताः स्यादा गुगं प्रवक्तुः ॥ ११६ ॥ गच्छनसौ फुल्लमुनजंगाम तमाश्रमं यत्र च रामचन्द्रः। अश्वत्थमूल न्यावत स्वचापं स्वयं कुशानामुपार न्यपीदत् ॥ ११७॥ तीत्वा स जनकात्मजायाः सन्दर्शनोपायमनीक्षमाणः । वसुन्धराया प्रवणाः प्लवङ्गा न वाररातो प्लवन क्षमन्ते ।। ११८ ।। संचिन्तयनिति कुशासनसंनिविष्टो ज्योतिस्तदक्षत विदरगम...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 190

अगस्त्यदृश्वा रघुनन्दनस्ततः स खेदमन्तःकरणोत्थमत्यजत् । प्रायो महद्दर्शनमेव देहिनां क्षिणोति खेदं रविवन्महातमः ।। १२२ ।। सभायमादिभिरर्चयित्वा रामस्तदयि शिरसा ननाम । तूष्णीं मुहूर्त व्यमनार्णवस्थो धृति समास्थाय पुनर्वभाषे ॥ १२३ ॥ दृष्ट्वा भवन्तं पितृवत्प्रमोदे यन्मामगा दुःखमहार्णवस्थम् । मन्ये ममाऽऽत्मानमवाप्तकामं वंशो महान्मे तपनात्प्रवृत्तः ॥ १२४ ॥ न तत्र मादृग्जनिता न जातः पदच्युतोऽहं प्रथम सभार्यः। सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥ १२५ ॥ तत्रापि भार्यामहृत च्छलेन स रावणो राक्षसपुङ्गवो मे । सा चाधुनाऽशोकवने समास्ते कृशा वियोगात्स्वत एव तन्वी । १२६॥ तीवा समुद्रं विनिहत्य दुष्टं बलेन सीता महता हरामि । यथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ।। १२७ ॥ इतीरितो वाचमुवाच विद्वान्मा राम शोकस्य वशं गतो भूः। बंशद्वये सन्ति नृपा महान्तः संप्राप्य दुःखं परिमुक्तदुःखाः ॥ १२८ ॥ त्वमग्रणीदर्दाशरथे धनुभृतां तवानुजस्यापि समो न लक्ष्यते । प्लवङ्गमानामधिपस्य कोटिशो मा मुश्च मा मुंच वचो विनार्थम् ॥ सहायसंपत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् । वारांनिधिः किं कुरुते त...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 191

इत्थं यत्र प्रेरितोऽगस्त्यवाचा सेतुं रामो बन्धयामास वाधौं । तुङ्ग निरस्तेन गत्वा तं हत्वाऽऽजो जानकीमानिनाय ॥१३३॥ तत्तादृक्षे तत्र तीर्थे स भिक्षुः स्नात्का भक्त्या रामनाथं प्रणम्य । तत्र श्रद्धोत्पतये मानुषाणां शिष्येभ्यस्तद्वैभवं सम्यगूचे ॥१३४ ॥ तमाहात्म्यं वर्णवन्तं मुनि तं पप्रच्छनं कश्चिदेवं विपश्चित् । रामेशाख्या किसमासोपपना पृष्टस्त्रेधाऽवोचदेवं समासम् ॥ १३५ ॥ रघूद्वहस्तत्पुरुषं परं जगौ शिवो बहुव्रीहिसमासमैरयत् । रामेश्वरे नामनि कर्मधारयं परं समाहुः स्म सुरेश्वरादयः ।। १३६ ॥ एवं निश्चित्योदितं तत्समासं श्रुत्वा तत्रत्यो बुधों योऽभ्यनन्दत् । अम्मोजाग्रितस्थ स्तूयमानः कञ्चित्कालं तत्र योगीडनैषीत् ॥ १३७॥ तस्मादायः प्रस्थितोऽभूत सशिष्यस्तीर्थस्नानोपात्तचित्तामलत्वः । पश्यन् देशान्मातुलीयं जगाहे गेहं दाहं तस्य पुस्तेन सार्थम् ॥ श्रुत्वा किश्चित् खेदमापेदिवान् स मत्वा मत्वा धैर्यमापेदिवान् सः। श्रावं श्रावं मातुलीयस्य तीव्र दाहं गेहस्यानुकम्पा व्यधत्त ॥१३९ ॥ विश्वस्य मा निहितवानसि पुस्तभार चादहश्रुतवहः पतितः प्रमादात् । तावान मे सदनदाहकतोऽनुतापो यावांस्तु पुस्तकविनाशकृतो मम स्यात् ॥ १४...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 192

अत्रान्तरेऽन्यनिजक्चरद्भिः स्वैस्तीर्थयात्रा दयितैः सतीभ्यः । अर्थादुपेत्याऽऽश्रमतः कनिष्ट्रातः सखेदैः स मुनिः समेक्षि ॥१४३ ॥ दृष्ट्वा पद्माधि क्रमाते प्रणेमुस्तत्पादाम्भोजीयरेणून दधानाः । अन्योन्यं द्रागाददुस्ते ददुश्चानेकानेहोयोगजैक्यान्नमांसि ।। १४४ ॥ वाणीनिर्जितपन्नगेश्वरगुरुपाचेतसा वेतसा बिभ्राणा चरणं मुनेविरचितम्यापल्लवं पल्लवम् । धुन्वन्तं प्रभया निवारिततमाशङ्कापदं कामदं रेजेन्तेवसतां समष्टिरसुहृत्तत्याहितात्याहिता ॥ १४५ ॥ शुश्राव साऽन्तेक्सतां समष्टिः स्वदेशकीयां सुखदा सुवार्ताम् । अर्थात् समीपागततः कुतश्चिद् द्विजेन्द्रतः सेवितसर्वतीर्थात् ॥ १४६॥ अथ गुरुवरमनवेक्ष्य नितान्तं व्यथितहृदो मुनिवर्यविनेयाः। कथमपि विदिततदीयसुवार्ताः समधिगताः किल केरलदेशान् ।। अत्रान्तरे यतिपतिः प्रसुवोऽन्त्यकृत्यां कृत्वा स्वधर्मपरिपालनसक्तचित्तः। आकाशलविवरकेरमहीरुहेषु श्रीकेरलेषु मुनिरास्त चरन् विरक्तः ॥ १४८॥ विचरनथ केरलेषु विष्वनिजशिष्यागमनं निरीक्ष्य मौनी। विनयेन महासुरालयेश विनमनस्तुत निस्तुलानुभावः ॥ १४९ ॥ सदसत्त्वविमुक्तया प्रकृत्या चिदचिद्रूपमिदं जगद्विचित्रम् । कुरुषे जगदीश लीलया त्वं परिपूर्...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 193

विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभावः । बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेकः ॥१५२॥ इति देवमभिष्टुवन् विशिष्टस्तुतितोऽसौ सुरसमसंनिविष्टः । चिरकालवियोगदीनचित्तैः शिरसा शिष्यगणैरथो ववन्दे ॥१५३॥ गुरुणा कुशलानुयोगपूर्व सदयं शिष्यगणेषु सान्त्वितेषु । अतिदीनमनाः शनैरवादीदजहद्गद्गदिकं स पद्मपादः ॥ १५४ ॥ भगवन्नभिगम्य रङ्गनाथं पथि पद्माक्षमहं निवर्तमानः । बहुधाविहितानुनीतिनीतो बत पूर्वाश्रममातुलेन गैहम् ॥ १५५ ॥ अहमस्य पुरो भिदावदेन्दोरपि पूर्वाश्रमवासनानुबन्धात् । अपठं भवदीयभाष्यटीकामजयं यात्र कृतानुयोगमेनम् ॥ १५६ ॥ दग्धमुद्रमुखमुद्रणमन्त्रैर्ध्वस्ततर्कगुरुकापिलतन्त्रैः । चर्मितो निगमसारसुधाक्तैर्मातुलं तमजयं तव सूक्तैः ।। १५७॥ खड्गाखड्गिविहारकल्पितरुजं काणादसेनामुखे शस्त्राशस्विकृतं श्रमं च विषमं पश्यत्यदानां पदे । यष्टीयष्टिभवं च कापिलबले खेदं मुने तावकैः सूक्तैौक्तिकवंशमौक्तिकमयै पद्यते वर्मितः ॥१५८ ॥ अथ गूढहदो यथापुरं मामभिनन्द्याऽऽहितसक्रियस्य तस्य । अधिसम निधाय भाष्यटीकामहमस्याऽऽयमशङ्कितो निशायाम् ।। युगपर्ययनृत्यदुग्रफालज्वलनज्वालकरालकीलजालः । दहनोऽधिनिशीथ...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 194

 १५] पद्मपादतीर्थयात्रावर्णनम् । अधुना धिषणा यथापुरं नो विधिना नाविशयं प्रसादमेति । विषमा पुनरीदृशी दशा नः किा युक्ता भवदविकिङ्कराणाम् ॥ गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृतिः। निरतिशयोज्ज्वलयुक्तियुता सा पथि किल हा विननाश कृशानौ॥ प्रयतेऽहं पुनरेव यदा तां प्रविधातुं बहुधाकृतयत्नः । न यथापूर्वमुपक्रमते ताः पटुयुक्तीभगवन्मम बुद्धिः॥१६४ ॥ कृपापारावारं तव चरणकोणाग्रशरणं गता दीना दूनाः कति कति न सर्वेश्वरपदम् । गुरो मन्तु न्तुः क इव मम पापांश इति चेत् मृषा मा भाषिष्ठाः पदकमलचिन्तावधिरसौ॥१६५ ॥ इति वादिनमेनमार्यपादः करुणापूरकरम्भितान्तरङ्गः । अमृताधिसखेरपास्त मोहर्वचनैः सान्त्वयति स्म वल्गुबन्धैः ॥ १६६ ॥ विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एषः। विदितः प्रथम मयाऽयमर्थः कायतश्चाङ्ग सुरेशदेशिकाय ॥१६॥ पूर्व शृङ्गमाधरे मत्सनीपे प्रेम्णा याऽसौ वाचिता पञ्चपादी। सा मे चित्चान्नापयात्यद्य शोको याताच्छीघ्रं तां लिखेत्याख्यदायः॥ आश्वास्येत्थं जलजचरगं भाष्यकृत्पञ्चपादीम् आचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूर्ध्या । नैतचित्रं परमपुरुषेऽव्याहतज्ञानशक्तो तस्मिन् मूले त्रिभुवनगुरौ...

श्रीमच्छङ्करदिग्विजयः - चतुर्दश सर्ग: - पद्मपादतीर्थयात्रावर्णनम् - 195

कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशेखराख्यः । मुनिवर्यममुं मुदं वितेने निजकोटीरनिघृष्टपनखाग्यः ॥ ११ ॥ प्रथते किम नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्तः। अयमुत्तरमाददे प्रमादादनले साऽऽहुतितामुपागतेति ॥ १७२ ॥ मुखतः पठितां मुनीन्दुना तां विलिखनेष विसिष्मियेऽथ भूपः । वद किं करवाणि किकरोऽहं वरदेति प्रणमन् व्यजिज्ञपच ।। १७३ ॥ नृप कालटिनामकाग्रहारा द्विजकर्मानधिकारिणोऽध शप्ताः । भवताऽपि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥१७॥ पमानौ प्रतिपद्य नष्टविवृति तुष्टे पुनः केरल- 'क्ष्मापालो यतिसार्वभौमसविधं प्राप्य प्रणम्याञ्जसा । लब्ध्वा तस मुखात् स्वनाटकवराण्यानन्दपाथोनिधी मजस्तत्पदपवयुग्ममनिशं ध्यायन् प्रतस्थे पुरीम् ॥ १७५ ।। इति श्रीमाधवीये तत्तीर्थयात्राटनार्थकः । संक्षेपशङ्करजये सर्गोऽजनि चतुर्दशः॥ (मादितः श्लोकाः-१५६२)

श्रीमच्छङ्करदिग्विजयः -पञ्चदशः सर्गः - आचार्यकृतदिग्विजयवर्णनम् - 196

॥ पञ्चदशः सर्गः॥ (आचार्यकृतदिग्विजयवर्णनम्) अथ शिष्यवरैर्युतः सहस्रैरनुयातः स सुधन्वना च राज्ञा । ककुभो विजिगीषुरेष सर्वाः प्रथम सेतुमुदारधीः प्रतस्थे ॥१॥ १॥ अभवत् किल तस्य तत्र शाक्तैर्गिरिजार्चाकपटान्मधुप्रसक्तैः । निकटस्थवितीर्णभूरिमोदस्फुटरिङ्कपटुयुक्तिमान् विवादः ॥२॥ स हि युक्तिभरैविधाय शाक्तान् प्रतिवाग्व्याहरणेऽपि तानशक्तान् । द्विजजातिबहिष्कृताननार्यानकरोल्लोकहिताय कर्मसेतुम् ॥३॥ अभिपूज्य स तत्र रामनाथं सह पाण्डयैः स्वक्शे विधाय चोलान् । द्रविडांश्च ततो जगाम काञ्ची नगरी हस्तिगिरेनितम्बकाञ्चीम् ॥४॥ सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् । अपवार्य च तान्त्रिकानतानीद्भगवत्याः श्रुतिसम्मतां सपर्याम् ।। ५॥ निजपादसरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्ध्रान् । अनुगृह्य स वेङ्कटाचलेशं प्रणिपत्याऽऽप विदर्भराजधानीम् ।। ६ ।। अभिगम्य स भक्तिपूर्वमस्यां कृतपूजः क्रथकैशिकेश्वरेण । निजशिष्यनिरस्त दुष्टबुद्धीन् व्यदधाज्ञैरवतन्त्रसावलम्बान् ।। ७॥ अभिवाद्य विदर्भराडवादीदथ कर्णाटवसुन्धरामियासुम् । भगवन् बहुभिः कपालिजालैः स हि देशो भवतामगम्यरूपः ॥ ८॥ न हि ते भगवद्यशः सहन्ते निहिताः श्रुति...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 197

इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा । मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ॥ १०॥ अथ तीर्थकराग्रणीः प्रतस्थे किल कापालिकजालकं विजेतुम् । निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाग्न्यः ॥११॥ पितृकाननभस्मनाऽनुलिप्तः करसंप्राप्तकरोटिरात्तशूलः । सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्वः ॥१२॥ भसितं धृतमित्यदस्तु युक्तं शुचि संत्यज्य शिरकपालमेतत् । बहथाशुचि खर्परं किमर्थ न कथङ्कारमुपास्यते कपाली ॥ १३ ॥ नरशीर्षकुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवार्चाम् । उमया समया सरोरुहाक्ष्या कथमाश्लिष्टवपुर्मुद प्रयायात् ॥ १४ ॥ इति जल्पति भैरवागमानां हृदयं कापुरुषेति तं विनिन्छ । निरवासयदात्मवित्समाजात् पुरुषैः स्वैरधिकारिभिः सुधन्वा ॥ १५ ॥ भृकुटीकुटिलाननश्चलोष्ठः सितमुद्यम्य परश्वधं स मूर्खः । भवतां न शिरांसि चेद्विभिन्या क्रकचो नाहमिति अवन्नयासीत् ॥१६॥ रुषितानि कपालिनां कुलानि प्रलयाम्भोधरभीकराखाणि । अमुना प्रहितान्यतिप्रसंख्यान्यभियातानि समुद्यतायुधानि ॥१७॥ अथ विप्रकुलं भयाकुलं तद्रुतमालोक्य महारथः सुधन्वा । कुपितः कवची स्थी निषङ्गा धनुरादाय ययौ शरान्...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 198

आचार्यकृतदिग्विजयवर्णनम् । असितोमरपट्टिशत्रिशूलैः प्रजिघांसून भृशमुज्झिताट्टहासान् । यतिराट् स चकार भस्मसात्तानिजहुङ्कारभुवाऽग्निना क्षणेन ॥ २१ ॥ नृपतिश्च शरैः सुवर्णपुङ्खैर्विनिकृत्तैः प्रतिपक्षवक्त्रपः। रणरङ्गभुवं सहस्रसङ्घः समलंकृत्य मुदाऽगमन्मुनीन्द्रम् ॥ २२ ॥ तदनु क्रकचो हतान् स्वकीयानरुजांश्च द्विजपुङ्गवानुदीक्ष्य । अतिमात्रविद्यमानचेता यतिराजस्य समीपमाप भूयः ॥ २३ ॥ कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य । इति हस्ततले दधत्कपालं क्षणमध्यायदसौ निमील्य नेत्रे ॥२४॥ सुरया परिपूरित कपालं झटिति ध्यायति भैरवागमज्ञे । स निपीय तदर्धमधमस्या निदधार स्मरति स्म भैरवं च ॥ २५ ॥ अथ मर्त्यशिरस्कपालमाली ज्वलनज्वालजटाछटस्त्रिशूली। विकटप्रकटाट्टहासशाली पुरतः प्रादुरभन्महाकपाली ॥ २६ ॥ तव भक्तजनगुहं दृशा सञ्जहि देवेति कपालिना नियुक्तः। कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः ।। २७ ।। यमिनामृषभेण संस्तुतः सन्नयमन्तर्धिमवाप देववर्यः । अखिलेऽपि खिले कुले खलानाममुमानचुरलं द्विजाः प्रहृष्टाः ॥२८॥ यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमथ्नन् । अपरान्तमहार्णवोपकण्ठं प...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 199

अवगाह्य सरित्पति स तत्र प्रियमासाध तुपारशैलपुत्र्याः। स्तवसत्तमममृतार्थचित्रे रचयामास भुजङ्गवृत्तरम्यम् ॥३२॥ तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् । हरदत्तसमाह्वयोऽधिगम्य स्वगुरुं सङ्गिरते स्म नीलकण्ठम् ॥ ३३ ॥ भगवन्निह शङ्कराभिधानो यतिरागत्य जिगीषुरार्यपादान् । स्ववशीकृतभट्टमण्डनादिः सह शिष्यैर्गिरिशालये समास्ते ॥ ३४ ॥ इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिवन्धरत्नहारः । शिवतत्परसूत्रभाष्यकर्ता प्रहसन वाचमुवाच शैववर्यः ॥३५ ।। सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा । पटवत्सुरवर्त्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥ ३६॥ परपक्षतमिस्रचञ्चदकर्मम तर्कंबहुधा विशीर्यमाणम् । अधुनैव मतं निजं स पश्यत्विति जल्पन्निरगादनल्पकोपः ॥ ३७॥ सितभूतितरङ्गिताखिलाङ्गः स्फुटरुद्राक्षकलापकम्रकण्ठैः । परिवीतमधीतशैवशास्त्रमुनिरायान्तममुं ददर्श शिष्यः ॥३८॥ अधिगत्य महर्षिसन्निकर्ष कविरातिष्ठिपदात्मपक्षमेषः । शुकतातकृतात्मशास्वतः प्राक्कपिलाचार्य इवाऽऽत्मशास्त्रमद्धा ॥ ३९ ॥ भगवन् क्षणमात्रमीक्ष्यतां तत्प्रथमं तु स्फुरदुक्तिपाटवं मे । इति देशिकपुङ्गवं निवार्य व्यवदत्तेन सुरेश्वरः सुधीश...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 200

प्रशमिस्तदसीति यत्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः। अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवचात् ॥ ४३ ॥ रवितत्प्रतिबिम्बयोरिवाभिद्धटतामित्यपि तत्त्वतो न वाच्यम् । मुकुरे प्रतिविम्बितस्य मिथ्यात्वगतेोमशिवादिदेशिकोक्त्या ॥ मुकुरस्थमुखस्य बिम्बवक्त्राद्भिदया पार्श्वगलोकलोकनेन । प्रतिविम्बितमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥ ४५ ॥ न च मायिकजीवनिष्ठमौढ्येश्वरसार्वज्ञविरुद्धधर्मवाधात् । उभयोरपि चित्स्वरूपताया अविशेषादभिदैव वास्तवीति ॥ ४६ ॥ न हि मानशतैः स्थितस्य बाधाऽपरया दत्तजलाञ्जलिभिंदा स्यात् । विपरीतहयत्वगोत्वबाधाद्धयपश्वोर्निजरूपकैक्ययुक्त्या ।। ४७ ॥ यदि मानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि । इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमप्यभीष्टम् ॥४८॥ इति युक्तिशतैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् । निगमान्तवचःप्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ॥४१॥ अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् । शृणु तत्त्वमसीति संप्रदायश्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥५॥ ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने । अविरोधि तु वाच्यमाददैक्यं पदयुग्मं स्फुटमाह क...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 201

इति चेन समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या । तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥५४॥ भवताऽपि तथा हि दृश्यदेहायहमन्तस्य जडत्वमभ्युपेयम् । परिशिष्टमुपेयमेकरूपं ननु किञ्चिद्धि तदेव तस्य रूपम् ॥ ५५ ॥ जगतोऽसत एवमेव युक्त्या त्वनिरूप्यत्वत एव कल्पितत्वात् । तदधिष्ठितभूतरूपमेयं ननु किश्चिद्धि तदीश्वरस्य सत्यम् ॥ ५६ ॥ तदिह श्रुतिगोभयस्वरूपे निरुपाधौ न हि मौढ्यसर्वविवे। न जपाकुसुमात्तलोहितिम्नः स्फटिके स्यान्निरुपाधिके प्रसक्तिः॥५७॥ अपि मेदधियो यथार्थतायां न भयं भेददृशः श्रुतिब्रवीतु । विपरीतदृशो ह्यनर्थयोगो न भिदाधीविपरीतधीर्यतः स्यात् ॥५८॥ अभिदा श्रुतिगाऽप्यतात्विकी चेत्पुरुषार्थश्रवणं न तद्गतौ स्यात् । अशिवोऽहमिति भ्रमस्य शास्त्राद्विधुमानत्वगतेरिवास्ति बाधः ॥ ५९॥ तदबाधितकल्पनाक्षति! श्रुतिसिद्धात्मपरैक्यबुद्धिवाधः । निगमात् प्रबलं विलोक्यते माकरणं येन तदीरितस्य बाधः॥६॥ ऋषिभिर्बहुधा परात्मतचं पुरुषार्थस्य च तत्त्वमप्यथोक्तम् । तदपास्य निरूपित्तप्रकारो भवताऽसौ कथमेक एवं धार्यः ॥ १॥ प्रबलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव नेयाः । इति नीतिबलात्त्रयीविरुद्धं न ऋषीणा...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 202

अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् । अत एव भुजेर्भवेत्स कर्ता परभोक्तृत्वमतिप्रसङ्गदुष्टम् ॥६५॥ पुरुषार्थ इहैष दुःखनाशः सकलस्थापि सुखस्य दुःखयुक्त्वात् । अतिहेयतया पुमर्थता नो विषपृक्तानवदित्यभेद्ययुक्तेः ॥६६॥ इति चेन सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् । न कथञ्चन युज्यते पुनः सा घटयेत्प्रत्युत मानसीयभेदम् ।। ६७ ॥ चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् । तदभावत एव कर्तना स्यान्न तृणादेरिति कल्पनं वरीयः ॥ ६८ ॥ विषयोत्थसुखस्य दुःखयुक्त्वेऽप्यलयं ब्रह्मसुखं न दुःखयुक्तम् । पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ॥ ६९ ॥ इति युक्तिशतोपहितार्वचनैः श्रुत्यवरोधसोविदल्लैः । यतिरात्ममतं प्रसाध्य शैवं परकृद्दर्शनदारुणैरजैषीत् ॥ ७० ॥ विजितो यतिभूभृता स शैवः सह गर्वेण विसृज्य च स्वभाष्यम् । शरणं प्रतिपेदिवान् महर्षि हरदत्तप्रमुखैः सहाऽऽत्मशिष्यैः॥ ७१॥ यमितामृषमेण नीलकण्ठं जितमाकर्ण्य मनीषिधुर्यवर्यम् । सहसोदयनादयः कवीन्द्राः परमद्वैतमुषश्चकम्पिरे स्म ॥ ७२ ॥ विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र । बहुधा विबुधैः प्रशस्यमानो भगवान् द्व...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 203

इति वैष्णवशैवशाक्तसौरप्रमुखानात्मवशंवदान्विधाय । अतिवेलवचोझरीनिरस्तप्रतिवाद्युञ्जयिनी पुरीमयासीत् ॥ ७६ ॥ सपदि प्रतिनादितः पयोदस्वनशङ्काकुलगेहकेकिजालैः । शशभृन्मुकुटाहणामृदङ्गध्वनिरश्रूयत तत्र मूर्छिताशः ॥ ७७॥ मकरध्वजविद्विडाप्तिविद्वाश्रमहृत्पुष्पसुगन्धवन्मरुद्भिः। अगरूद्भवधूपधूपिताशं स महाकालनिवेशनं विवेश ॥ ७८ ॥ भगवानभिवन्ध चन्द्रमौलि मुनिवृन्दैरभिवन्धपादपद्मः । श्रमहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरप्रभावः ॥ ७९ ॥ काये कथयास्मदीयवार्तामिह सौम्येति स भट्टभास्कराय । विससर्ज वशंवदाग्रगण्यं मुनिरभ्यर्णगत सनन्दनार्यम् ।। ८० ॥ अभिरूपकुलावतंसभूतं बहुधाव्याकृतसर्ववेदराशिम् । तमयत्ननिरस्तदुःसपत्नं प्रतिपद्येत्थमुवाच वावदकः ॥ ८॥ जयति स्म दिगन्तगीतकीर्भिगवाञ्शङ्करयोगिचक्रवर्ती । प्रथयन् परमाद्वितीयतत्त्वं शमयंस्तत्परिपन्थिवादिदर्पम् ॥ ८२ ॥ स जगाद बुधाग्रगीभवन्त कुम तोत्प्रेक्षितसूत्रवृत्तिजालम् । अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसन्धिम् ॥३॥ तदिदं परिगृह्यतां मनीषिन् मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् । इति तामवहेलपूर्ववर्णी गिरमाकर्ण्य तदा स लब्धवर्णः। यशसां निधिरीषदात्तरोषस्तमुवा...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 204

मम वल्गति सूक्तिगुम्फवृन्दे कणभुग्जल्पितमल्पतामुपैति । कपिलस्य पलायते प्रलापः सुधियां कैव कथाऽधुनातनानाम् ॥ ८७ ॥ इति वादिनमब्रवीत् सनन्दः कुशलोऽथैनमविज्ञ माऽवमंस्थाः। न हि दारितभूधरोऽपि टङ्कः प्रभवेद्वज्रमणिप्रभेदनाय ॥४८ स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदग्न्य। सकलं तदवोचदानुपर्ध्या स महात्माऽपि यतीशमाससाद ॥ ८९ ।। अथ भास्करमस्करिप्रवीरौ बहुधाक्षेपसमर्थनप्रवीणौ । बहुभिर्वचनैरुदारवृत्तैर्व्यदधातां विजयेषिणौ विवादम् ॥ ९ ॥ अनयोरतिचित्रशब्दशय्यां दधतोर्दुनयभेदशक्तयुक्त्योः । पटुवादमृधेऽन्तरं तटस्थाः श्रुतवन्तोऽपि न किञ्चनान्वविन्दन ॥ ९१ ।। अथ तस्य यतिः समीक्ष्य दाक्ष्यं निजपक्षाब्जशरजडाब्जभूतम् । बहुधाऽऽक्षिपदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥ ९२ ॥ अथ भास्करवित्स्वपक्षगुप्त्यै विधुतो वाग्मिवरः प्रगल्भयुक्त्या । श्रुतिशीर्षवचःप्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरूचे ।। ९३ ॥ प्रशमिस्त्वदुदीरितं न युक्तं प्रकृतिर्जीवपरात्मभेदिकेति । न भिनत्ति हि जीवगेशगा वोभयभावस्य तदुत्तरोद्भवत्वात् ॥ ९४ ॥ मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिबिम्बविम्बभेदी। कथमीरय वक्त्रमात्रगचेञ्चि...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 205

न हि मानकथा विशिष्टगत्वे भवदापादित ईक्षते तथा हि । अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्नुते तथा चेत् । ९८ ।। अनुभव्यहमित्यपि प्रतीवेरनुभूतेश्च विशिष्टनिष्ठता स्यात् । अजडानुभवस्य नो जडान्तःकरणस्थत्वमितीष्टता न तस्याः ॥ ९९ ॥ ननु दाहकता यथाग्नियोगादधिकूटं व्यपदिश्यते तथैव । अनुभूतिमदात्मयोगतोऽन्तःकरणे सा व्यपदिश्यतेऽनुभूतिः ॥ १०॥ इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचारः । न पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिर्हि ।। १०१ ॥ न च तत्र हि बाधकस्य सत्त्वादियमस्तु प्रकृतेर्न साऽस्त्यबाधात् । इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेश्च बाधकत्वात् ॥१२॥ अधिसुप्त्यपि चित्तवति तत्स्यायदि चाज्ञानमिदं हृदाश्रितं स्यात् । तदिहास्ति न मानमुक्तरीत्या प्रकृतेदृश्यविशिष्टनिष्ठतायाम् ।। १०३ ॥ ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिद्गतेति । प्रतिबन्धकशून्यता तु सुप्तेः परमात्मैक्यगतेः सतेति वाक्यात् ॥ न च तत्र च तत्स्थितिप्रतीतिः सति संपद्य विदुन हीति वाक्यात् । श्रुतिगीस्तदधिक्षिपत्यभावप्रतिपत्तेन च नियोज नेति ॥ १५ ॥ किमु नित्यमनित्यमेव चैतत्प्रथमो नेह समस्ति युक्त्यभावात्...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 206

प्रमितित्वमुपाश्रयन् प्रतीतेरमुकः खण्ड इति स्वशास्त्रसिद्धात् । भिदभिवयगोत्तरत्वहेतोर्धियमेतां तु किमित्युपेक्षसे त्वम् ।। १०९॥च अनुमानमिदं तथा च सिद्धं विमता धीः प्रमितिभिदाभिदत्वात् । इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥ ११० ॥ ननु संहननात्मधीः प्रमाणं न भवत्येव निषिद्धयमानगत्वात् । इदमिति प्रतिपन्नरूप्यधीवत्प्रबला सत्प्रतिपक्षतेति चेन्न ॥ १११ ।। व्यभिचारयुतत्वतोऽस्य खण्डः पशुरित्यत्र तदन्यधीस्थमुण्डे । इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमत्वात् ॥ ११२ ॥ ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् । इति चेन्न विवक्षितस्य हेतोय॑भिचारात् पुनरप्यमुत्र चैव ॥ ११३ ॥ ननु गोत्व उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः । अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः॥१४॥ इति चेत्र विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेधः। उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसक्त्यभावात् ॥ न हि जात्वपि खण्डके प्रसक्तः परमुण्डस्त्विति संप्रसक्त्यभावः। चरमोऽपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥ ११६ ॥ स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेध...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 207

तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य । तदवोधलये लयोपपत्तेजमतः सत्यतया छिदा न ते सात् ॥ १२० ॥ ननु पञ्चसु तु स्थलेषु भेदो ह्यभिदा नो तु शरीरदेहिनोस्ते । प्रथितस्थलपञ्चकेतरत्वात् फलिता यत्र तथा च हेत्वसिद्धिः ॥ १२१ ॥ इति चेत्र विकल्पनासहत्वान्मिलितानां मिदभेदतन्त्रता किम् । उत वा पृथगेव तत्र नाऽधो मिलिताः पञ्च न हि क्वचिद्यतः स्युः।। चरमोऽपि न युज्यते तदाऽङ्गाङ्गिकमावस्य च तन्त्रता न किं स्यात् । न च योजकगौरवं च दोषः प्रकृते तस्य तवापि संमतत्वात् ॥ १२३ ॥ अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत् । अपि सोऽत्र न दुर्लभश्चिदात्माङ्गकयोः कारणकार्यभावभावात् ॥१२॥ न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति । तदभेदत एव सर्वकस्याप्युपपत्ते रिह जीवकार्यतायाः ।। १२५ ॥ तदसिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् । भ्रमधीप्रमितित्ववेदिनोऽतस्तव न भ्रान्तिपदार्थ एव सिध्येत् ।। १२६ ॥ अपि च भ्रम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ । परिणाम इहाऽऽदिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥१२७॥ ननु रक्ततमप्रसूनयोगात् स्फटिके संस्फुरणं यथाऽरुणिनः । भ्रमसंयुतचिचयोगतोऽ...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 208

 असमागतयात्मनो निरस्तेतरयुक्तः परिणत्ययोग्यतायाः । परिणत्ययुजेश्च योग्यतायामपि बुद्धयाकृतितश्चिदात्मनोऽस्य ॥ १३ ॥ न हि नित्यचिदाश्रयप्रतीचा परिणामः पुनरन्यचित्स्वरूपः । गुणयोः समुदायमत्ययोगाद्गुणतावान्तरजातितः सजात्योः ॥ १३२ ।। युगपत्समवैति नो हि शौक्ल्यद्वयकं यत्र च कुलचिघदेतत् । ननु चिन्न गुणो गुणी तथा च प्रसरेनोदितदुष्टतेति चेत्र ।। १३३ ।। कटकाश्रयभूतदीसहेम्नो रुचकाधारकभाववत्तथैव । अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाधारतया स्थितेरयोगात् ।। १३४ ।। न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्त्यसंभवेऽपि । भ्रमसंज्ञितवस्त्वसंभवेन भ्रमसंपादितसंस्कृतस्योगात् ॥ १३५ ॥ अपि नाग्रहण चितेरभावश्चितिरूपग्रहणख नित्यतायाः। तदसंभवतो न वृत्यभावस्तदभावेऽपि चिदात्मनोऽबभासात् ॥ १३६ ।। न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य । इति वाच्यमखण्डवृत्तिरूढेश्वरबोधस्य निवर्तकत्क्योमात ॥ १३७ ।। अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते। सकलव्यवहारसङ्करत्वात्तदलं जीवनिकाऽपि दुर्लभा ते ॥ १३८ ।। इति युक्तिशतैरमर्त्यकीर्तिः सुमतीन्द्रं तमतन्द्रितं स जित्वा । श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 209

प्रतिपद्य तु बालिकान् महर्षी विनयिभ्यः प्रविवृण्वति स्वभाष्यम् । अवदन्नसहिष्णवः प्रवीणाः समये केचिदथाऽऽहताभिधाने ॥१४२ ।। ननु जीवमजीवमाश्रवं च श्रितवत्संवरनिर्जरौ च बन्धः । अपि मोक्ष उपैषि सप्तसंख्यान्न पदार्थान् कथमेव सप्तभङ्गया ॥ १४३॥ कथयाऽहत जीवमस्तिकायं स्फुटमेवंविध इत्युवाच मौनी । अवदत्स च देहतुल्यमानो दृढकर्माष्टकवेष्टितश्च विद्वन् ॥१४४ ॥ अमहाननणुर्घटादिवत्स्यात्स न नित्योऽपि च मानुषाच्च देहात् । गजदेहमयन्विशेन कृत्स्नं प्रविशेच्च प्लुषिदेहमप्यकृत्स्नः ॥ १४५ ॥ उपयान्ति च केचन प्रतीका महता संहननेन सङ्गमेऽस्य । अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसमः समश्रुतेश्च ॥ १४६ ॥ उपयन्त इमे तथाऽपयन्तो यदि वर्मेव न जीवतां भजेयुः । प्रभवेयुरनात्मनः कथं ते कथमात्मावयवाः प्रयन्तु तस्मिन् ॥१४७॥ जनितारहिताः क्षयेण हीनाः समुपायान्त्यपयान्ति चाऽऽत्मनस्ते। अमुकोपचितः प्रयाति कृत्स्नं त्वमुकश्चापचितः प्रयात्यकृत्स्नम् ॥ किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्धमत्या। वपुरुन्मथितं भवेत्तु पूर्व वत कात्स्न्येन वपुर्न चेतयेयुः ॥ १४९ ॥ चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः। इतरेतरमङ्गमेजयन्तु ज्ञपते ...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 210

यदि चैवममी सविक्रियत्वाद्धटवत्ते च विनश्वरा भवेयुः । इति नश्वरतां प्रयाति जीवे कृतनाशाकृतसङ्गमौ भवेताम् ॥ १५३ ॥ अपि चैवमलावुवद्भवाब्धौ निजकर्माष्टकमारमग्नजन्तोः। सततोर्ध्वगतिस्वरूपमोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ॥ १५४ ॥ अपि साधनभूतसप्तभङ्गीनयमप्यारीत नाऽऽद्रियामहे ते । परमार्थसतां विरोधमाजां स्थितिरेकत्र हि नैकदा घटेत ॥ ५५ ॥ इति माध्यमिकेषु भनष्वथ भाष्याणि स नैमिशे वितत्य । दरदान् भरतांश्च शूरसेनान् कुरुपाञ्चालमुखान् बहूनजैषीत् ॥ १५६ ॥ पटुयुक्तिनिकृत्तसर्वशास्त्रं गुरुभट्टोदयनादिकैरजय्यम् । स हि खण्डनकारमूढदपं बहुधा व्युद्य वशंवदं चकार ॥ १५७ ॥ तदनन्तरमेष कामरूपानधिगत्याभिनवोपशब्दगुप्तम् । अजयत्किल शाक्तभाष्यकारं स च भनो मनसेदमालुलोचे ॥१५८ ॥ निगमाजविकासिबालमानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् । न कथञ्चन मद्वशंवदोऽसौ तदमुं दैवतकृत्यया हरेयम् ॥ १५९ ॥ इति गूढमसौ विचिन्त्य पश्चात् सह शिष्यैः सहसा स्वशाक्तभाष्यम् । परिहत्य जनापवादभीत्या यमिनः शिष्य इवान्ववर्ततेषः ॥ १६० ॥ निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाद्यैः । विहितापचितिस्तथाऽङ्गवङ्गेष्वयमास्तीर्य यशो जगाम गौडान् ॥...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 211

शास्त्राम्नायविनिन्दकेन कुधिया कूटप्रवादाग्रहा- निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ॥ १६३ ॥ शाक्तैः पाशुपतैरपि क्षपणकैः कापालिकैर्वैष्णवै- रप्यन्यैरखिलैः खिलं खलु खलैर्दुर्वादिभिर्वैदिकम् । मार्ग रक्षितुमुग्रवादिविजयं नो मानहेतोय॑धा- सर्वज्ञो न यतोऽस्य संभवति सम्मानग्रहग्रस्तता ।। १६४ ॥ दिष्टे पङ्कजविष्टरेण जगतामायेन तत्सनुभि- निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाधैरपि । श्रीताद्वैतपणे परात्मभिदुरान् दुर्वादिनः कण्टकान् प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णताम् ॥१६५ ॥ शान्तिर्दान्तिविरागते छुपरतिः क्षान्तिः परैकाग्रता श्रद्धेति प्रथिताभिरेधिततनौ षड्वक्त्रवन्मातृभिः । भिक्षुक्षोणिपतौ पिचण्डिलतरोचण्डातिकण्डूच्चल- स्पाखण्डासुरखण्डनैकरसिके बाधा बुधानां कुतः ॥ १६६ ।। यत्राऽऽरम्भजकाहलाकलकलोकायतो विदुतः काणाः काणभुजास्तु सैन्यरजसा सांख्यधृताऽसांख्यधीः युद्ध्वा तेषु पलायितेषु सहसा योगा सहैवाद्रवन् को वा वादिभटः पदुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥ १६७ ॥ उच्चण्डे पणबन्धवन्धुरतरे वाचंयमक्ष्मापतेः पूर्व मण्डनखण्डने समुदभूद्यो डिण्डिमाडम्बरः । जाताः शब्दपरम्परास्तत इमाः पाखण्डद...

श्रीमच्छङ्करदिग्विजयः - आचार्यकृतदिग्विजयवर्णनम् - 212

बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्विद्रुतः कोणे द्राकणभुरव्यलीयत तमःस्तोमावृतो गौतमः। भग्नोऽसौ कपिलः पलायत ततः पातञ्जलाश्चाञ्जलि चक्रुस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ॥ १६९ ॥ हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाः काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः। गाढं बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः सेवन्ते तं विचित्रा यतिधरणिपतेः शूरता वा दया वा॥१७॥ शान्त्यावर्णववाडवानलशिखा सत्याभ्रवात्या दया- ज्योत्स्नादर्शनिशाऽथ शान्तिनलिनीराकाशशाङ्कद्युतिः । आस्तिक्यद्रुमदावपावकनवज्वालावली सत्कथा- हंसीपावृडखण्डि दण्डिपतिना पाखण्डवाश्मण्डली ॥ १७१ ॥ अद्वैतामृतवर्षिभिः परगुरुव्याहारधाराधरैः कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कृत्ततापत्रयैः । दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसंपादितं शान्त संप्रति खण्डिताच निविडाः पाखण्डचण्डातपाः॥ शान्तानां सुभटाः कपालिकपतद्राहग्रहव्यापूताः काणादप्रतिहारिणः क्षपणकक्षोणीशर्यतालिकाः । सामन्ताश्च दिगम्बरान्वयभुवश्चार्वाकवंशांकुरा नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ।। - इति सकलदिशासु द्वैतवार्ता निवृत्ती स्वयमथ परितस्तार...

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

 प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षं रविरिव तिमिरौघे संप्रशान्ते महः स्वम् । १७४॥ इति श्रीमाधवीये तत्तदाशाजयकौतुकी। संक्षेपशङ्करजये सर्गः पञ्चदशोऽभवत् ॥ (आदितः श्लोकाः-१७३६)

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 213

 (श्रीमदाचार्याणां शारदापीठवासवर्णनम् ) अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम् । स तु तदाऽपजितो यतिगोचरं हतमनाः कृतवानपगोरणम् ॥१॥ स ततोभिचचार मूढबुद्धिः यतिशार्दूलममुं प्ररूढरोषः । अचिकित्स्यतमो भिषग्भिरस्मा दजनिष्टास्य भगन्दराख्यरोगः ॥२॥ अचिकित्स्यभगन्दराख्यरोगप्रसरच्छोणितपङ्किलस्वशाव्याः । अजुगुप्सविशोधनादिरूपां परिचर्यामकृतास्य तोटकार्यः ॥ ३ ॥ भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समबोधयन् शनैः। नोपेक्षणीयो भगवन् महामयस्त्वपीडितः शत्रुरिवर्द्धिमाप्नुयात् ॥४॥ ममत्वहानाद्भवता शरीरके न गण्यते व्याधिकृतातिरीदृशी। पश्यन्त एवान्तिकवर्तिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ॥ चिकित्सका व्याधिनिधानकोविदाः संप्रच्छनीया भगवन्नितस्ततः । प्रत्यक्षवत्संपति सन्ति पुरुषा जीवातुवेदे गदितार्थसिद्धिदाः॥६॥

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 214

उपेक्षमाणेऽपि गुरावनास्थया शरीरकादौ सुखमात्मनीश्वरैः। नोपेक्षणीयं गुरुदुःखदृश्वभिदुःखं विनेयैरिति शास्त्रनिश्चयः ॥ ७॥ स्वस्थे भवत्पादसरोरुहद्वये स्वस्था वयं यन्मधुपायिवृत्तयः। तस्माद्भवेत्तावकविग्रहो यथा स्वस्थस्तथा वाञ्छति पूज्य नो मनः ॥ व्याधिर्हि जन्मान्तरपापपाको भोगेन तस्मात् क्षपणीय एषः। अभुज्यमानः पुरुषं न मुञ्चजन्मान्तरेऽपीति हि शास्त्रवादः ॥९॥ व्याधिविधाऽसौ कथितो हि विद्भिः कर्मोद्भवो धातुकृतस्तथेति । आद्यक्षयः कर्मण एव लीनाचिकित्सया स्याचरमोदितस्य ॥ १० ॥ संक्षीयतां कर्मण एव संक्षयाव्याधिः प्रवृत्तो न चिकित्स्यते मया । पतेच्छरीरं यदि तन्निमित्ततः पतत्ववश्यं न बिभेमि किञ्चन ॥११॥ सत्यं गुरो ते न शरीरलोभः स्पृहालुता नस्तु चिराय तस्मै । त्वज्जीवनेनैव हि जीवनं नः पाथश्चराणां जलमेव तद्धि ॥ १२ ॥ स्वयं कृतार्थाः परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् । तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विद्वन् ॥ १३ ॥ निर्बन्धतो गुरुवरः प्रददावनुज्ञां दिग्भ्यो भिषग्वरसमानयनाय तेभ्यः । नत्वा गुरुं प्रतिदिशं प्रययुः प्रहृष्टाः शिष्याः प्रवासकुशला हरिभक्तिभाजः।। प्रायो नृपं कविजना भिषजो व...

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 215

उपगुदं भिषजः परिबाधते गद उदेत्य तनुं तनुमध्यगः । यदिदमस्य विधेयमिदं ध्रुवं वदत रोगतमस्तिमिरारयः ॥१८॥ चिरमुपेक्षितवानहमेतकं दुरितजोऽयमिति प्रतिभाति मे। तदपि शिष्यगणैर्निरहिंस्यहं प्रहितवान् मयदानयनाय तान् ॥ १९ ॥ निगदिते मुनिनेति भिषग्वरा विदधिरे बहुधा गदसत्क्रियाः। न च शशाम गदो बहुतापदो विमनसः पटवो भिषजोऽभवन ॥२०॥ अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिद्धभिषग्वरान । अटत गेहमगात्समयो बहुर्गदहृते भवतामित ईयुषाम् ।। २१ ॥ दिनचयं गणयन पथिलोचनः प्रियजनो निवसेद्विरहातुरः । नरपतिर्भवतां शरणं ध्रुवं स च विदेशगमं श्रुतवान्यदि ॥ २२ ॥ रुषितवान्न च वो वितरेन्नृपः फणितजीवितमक्षतशासनः । तुरगवन्नृपतिश्चलमानसो भिषजमन्यमसौ विदधीत वा ॥ २३ ॥ जनपदो विरलो गदहारकैर्बहुलरुग्णजनः प्रकृतेरतः । मृगयते भवतो भवतां गृहे गदिजनः सहितुं गदमक्षमः ॥२४॥ पितृकुता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति । जनितमप्यफलं भिषजं विना भिषगसौ हरिरेव तनूभृतः ॥ २५ ॥ यदुदितं भवता वितथं न तत्तदपि न क्षमते व्रजितुं मनः । सुरभुवं प्रविहाय मनुष्यगां वजितुमिच्छति कोऽत्र नरः सुधीः ॥ २६ ॥ इति निगद्य ययुभिषजां गणा विमनसः पटवोऽपि निजान् गृहान् । ...

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 216

स्मरशासनशासनान्नियुक्तौ द्विजवेषं प्रविधाय भूमिमाप्तौ । उपसेदतुरश्विनौ च देवौ सुभुजौ साञ्जनलोचनौ सुपुस्तौ ॥ २९ ॥ यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुगेषा । इति तं समुदीर्य योगिवयं विबुधौ तौ प्रतिजग्मतुर्यथेतम् ।। ३० ॥ तदनु स्वगुरोगदापनुत्त्यै परमन्त्रं तु जनाप जातमन्युः। मुहुरार्यपदेन वार्यमाणोऽप्यरिवगेऽप्यनुकम्पिनाऽजपादः ॥ ३१ ॥ अमुनैव ततो गदेन नीचः प्रतियातेन हतो ममार गुप्तः । मतिपूर्वकतो महानुभावेष्वनयः कस्य भवेत्सुखोपलब्ध्यै ॥ ३२ ॥ स्वस्थः सोऽयं ब्रह्म सायं कदाचिद्धयायन गङ्गापूरसङ्गार्द्रवातैः। आगच्छन्तं सैकते प्रत्यगच्छद्योगीशानं गौडपादाभिधानम् ॥ ३३॥ पाणी फुल्लश्वेतपङ्केरुहश्रीमैत्रीपात्रीभूतभासा घटेन । आराद्राजकैरवानन्दसन्ध्यारागारक्ताम्भोदलीलां दधानम् ॥ ३४॥ पाणी शोणाम्भोजबुद्धया समन्तादाम्यद्भुङ्गीमण्डलीतुल्यकुल्याम् । अमुल्यग्रासङ्गिरुद्राक्षमालामङ्गुष्ठाग्रेणासकृद्भामयन्तम् ॥ ३५ ॥ आर्यस्याथो गौडपादस्य पादावभ्यासौ शङ्करः पङ्कजाभौ । भक्तिश्रद्धासंभ्रमाक्रान्तचेताः प्रहस्तस्थावग्रतः प्राञ्जलिः सन् ॥ ३६ ।। सिञ्चन्नेनं क्षीरवाराशिवीचीसाचिव्यायाऽऽसन्नयनः कटाक्षः। दन्तज्...

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 217

कञ्चिन्नित्याः शत्रवो निर्जितास्ते कञ्चित्प्राप्ताः सद्गुणाः शान्तिपूर्वाः। कञ्चिद्योगः साधितोऽष्टाङ्गयुक्तः कचिच्चित्तं साधु चित्तत्त्वगं ते ॥४०॥ इत्यद्वैताचार्यवर्येण तेन प्रेम्णा पृष्टः शङ्करः साधुशीलः । भक्त्युद्रेकाद्वाष्पपर्याकुलाक्षो बन्नन्मूर्धन्यञ्जलि व्याजहार ॥ ४१ ॥ यद्यत्पृष्टं स्पष्टमाचार्यपादैन्तत्तत्सर्व भो भविष्यत्यवश्यम् । कारुण्याब्धेः कल्पयुष्मत्कटादृष्टस्याऽऽहुर्दुर्लभं किंनु जन्तोः ॥ ४२ ॥ मूको वाग्ग्मी मन्दधीः पण्डिताग्ऱ्या पापाचारः पुण्यनिष्ठेषु गण्यः । कामासक्तः कीर्तिमानिःस्पृहाणामार्यापाङ्गालोकतः स्यात्क्षणेन ॥४॥ लेशं वाऽपि ज्ञातुमीष्टे पुमान्कः सीमातीनस्याद्य युष्मन्महिम्नः । तुष्ट्राऽत्यन्तं तत्वविद्योपदेष्टा जातः साक्षाद्यस्य वैयासकि सः ॥४४॥ आजानात्मज्ञानसिद्धं यमारादौदासीन्याजातमात्रं व्रजन्तम् । प्रेमावेशात्पुत्र पुत्रति शोचन्पाराशयः पृष्ठतोऽनुप्रपेदे ॥४५॥ यश्चाऽऽहतो योगभाष्यप्रणेत्रा पित्रा प्राप्तः स प्रपञ्चकभावम् । सर्वाहन्ताशीलनाद्योगभूमेः प्रत्याक्रोशं प्रातनोवृक्षरूपः ॥४६॥ तत्तादृक्षज्ञानपाथोधियुष्मत्पादद्वन्द्वं पद्मसौहार्दहृद्यम् । देवादेतद्दीनदृग्ग...

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 218

मत्कारिकाभावविवोधितादृङ्माण्डूक्यभाष्यश्रवणोत्थहर्षः । दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्व ॥५१॥ स प्राह पर्यायशुकर्षिमीक्ष्य भवन्तमद्राक्षमतिष्यपूरुषम् । वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ॥ तथेति सोऽन्तर्धिमपास्तमोहे गते चिरञ्जीविमुनावथासौ। वृत्तान्तमेतं स मुदाऽऽश्रवेभ्यः संश्रावयंस्तां क्षणदामनेषीत् ॥ ५३॥ अथ धुनद्यामुषसि क्षमीन्द्रो निवर्त्य नित्यं विधिवत्स शिष्यैः । तीरे निदिध्यासनलालसोऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥५४॥ जम्बूद्वीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मण्डलं भारताख्यम् । काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽसौ शारदा वागधीशा॥ द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिर्देव्या गेहं यत्र सर्वज्ञपीठम् । यत्राऽरोहे सर्ववित्सजनानां नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ।। ५६ ॥ प्राच्याः प्राच्या पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीची प्रपन्नाः। सर्वज्ञास्तवारमुद्घाटयन्तो दाक्षा नद्धं नो तदुद्घाटयन्ति ।। ५७ ॥ वार्तामुपश्रुत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् । काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम् ॥ ५८॥...

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 219

करटतटान्तवान्तमदसौरभसारभर- स्खलदलिसंभ्रमत्कलभकुम्भविजृम्भिवलः । हरिरिव जम्बुकानमददन्तगजान्कुजना- नपि खलु नाक्षिगोचरयतीह यतिहतकान् ॥ ६१॥ संश्रावयन्नध्वनि देशिकेन्द्रः श्रीदक्षिणद्वारभुवं प्रपेदे । कवाटसुद्धाटय निवेष्टुकामं ससंभ्रमं वादिगणो न्यरौत्सीत् ॥ ६ ॥ अथाब्रवीद्वादिगणः स देशिकं किमर्थमेवं बहुसंभ्रमक्रिया। यदत्र कार्य तदुदीर्यतां शनैर्न संभ्रमः कर्तुमलं तदीप्सितम् ॥ ६३ ॥ यः कश्चिदेत्येतु परीक्षितुं चेद्वेदाखिलं नाविदितं ममाणु। इत्थं भवान्वक्ति समुन्नतीच्छो दत्त्वा परीक्षां व्रज देवतालयम् ॥ ६४ ॥ षड्भाववादी कणभुमतस्थः पप्रच्छ तं स्वीयरहस्यमेकम् । संयोगभाजः परमाणुयुग्माजातं हि सूक्ष्मं द्वयणुकं मतं नः ॥६५॥ यत्स्यादणुत्वं तदुपाश्रित तजायेत कस्माद्वद सर्वविच्चेत् । नो चेत्प्रभुत्वं तव वक्तुमेते सर्वज्ञभाषां विहितां ब्रुवन्ति ॥ ६६ ॥ या द्वित्वसंख्या परमाणुनिष्ठा सा कारणं तस्य गतस्य मात्रा। इतीरिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ॥ ६७ ॥ तत्रापि नैयायिक आत्तगर्वः कणादपक्षाचरणाक्षपक्षे । मुक्तेविशेष वद सर्वविचेन्नो चेत्प्रतिज्ञा त्यज सर्वविवे ॥ ६८ ॥ मत्यन्तनाशे गुणसङ्गतेर्या...

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 220

तं कापिलः प्राह च मूलयोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा। जगनिदानं वद सर्ववित्वानो चेत्प्रवेशस्तव दुर्लभः स्यात् ॥ ७१ ॥ सा विश्वयोनिर्बहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणात्मिका सती । इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥७२॥ ततो नदन्तो न्यरुधन सगर्वा दवा परीक्षा व्रज धाम देव्याः। बौद्धास्तथा संप्रथिताः पृथिव्यां बाह्यार्थविज्ञानकशून्यवादैः ॥ ७३ ॥ बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् । विज्ञानवादस्य च किं विभेदकं भवन्मताहि ततः परं व्रज ॥ ७४ ॥ सौत्रान्तिको वक्ति हि वेद्यजातं लिङ्गाधिगम्यं त्वितरोऽक्षिगम्यम् । तयोस्तयोभंगुरताऽविशिष्टा भेदः कियान्वेदनवेद्यभागी ।। ७५ ॥ विज्ञानवादी क्षणिकत्वमेषामङ्गीचकारापि बहुत्वमेषः । वेदान्तवादी स्थिरसंविदेकेत्यङ्गीचकारेति महान्विशेषः ॥ ७६ ॥ अथाब्रवीदिग्वसनानुसारी रहस्यमेकं वद सर्वविच्चेत् । यदस्तिकायोत्तरशब्दवाच्यं तत्कि मतेऽस्मिन्वद देशिकाऽऽशु ॥ ७७॥ तत्राऽऽह देशिकवरः शृणु रोचते चेत् जीवादिपञ्चकमभीष्टमुदाहरन्ति । तच्छन्दवाच्यमिति जैनमते प्रशस्ते यद्यस्ति बोधुमपरं कथयाऽऽशु तन्मे ॥ ७८॥ दत्तोत्तरे वादिगणे ...

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम् - 221

शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं त समपूजयस्ते । द्वारं समुद्घाख्य ददुश्च मार्ग ततो विवेशान्तरभूमिभागम् ॥ ८१॥ पाणौ सनन्दनमसाववलम्ब्य विद्याभद्रासनं तदवरोढुमनाश्चचाल । अत्रान्तरे विधिवधूर्विबुधाग्रगण्यमाचार्यशङ्करमवोचदनङ्गवाचा ॥ ८२॥ सर्वज्ञता तेऽस्ति पुरैव यस्मात्सर्वत्र पक्षि भवान्न चेत्ते । विरिश्चिरूपान्तरविश्वरूपः शिष्यः कथं स्वात्त्रथिताग्रणीः सः॥८३॥ सर्वज्ञतकैव भवेन हेतुः पीठाधिरोहे परिशुद्धता च । सा तेऽस्ति वा नेति विचार्यमेतत्तिष्ठ क्षणं त्व कुरु साहसं मा ॥८॥ वं चाङ्गनाः समुपभुज्य कलारहस्यप्रावीण्यभाजनमभूयतिधर्मनिष्ठः । आरोढुमीदृशपदं कथमर्हता ते सर्वज्ञतेव विमलत्वमपीह हेतुः ।। ८५।। नास्मिञ्शरीरे कृतकिल्विषोऽहं जन्मप्रभृत्यम्ब न संदिहेऽहम् । न्यधायि देहान्तरसंश्रयाद्यन्न तेन लिप्येत हि कर्मणाऽन्यः ॥ ८६ ॥ इत्थं निरुत्तरपदां स विधाय देवी सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः । संमानितोऽभवदसौ विबुधेश्च वाण्या गार्या कहोलमुखरैखि याज्ञवल्क्यः॥ वादप्रादुर्विनोदप्रतिकथनसुधीवाददुरितर्क- न्यकारस्वरधाटीभरितहरिदुपन्यस्तमाहानुभाव्यः। सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ- श्ल...

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम्- 222

 श्रीमदाचार्याणां शारदापीठवासवर्णनम् । २०३ काणादः क प्रणादः क च कपिलवचः क्वाक्षिपादप्रवादः क्वाप्यन्धा योगकन्था व गुरुरतिलघुः क्वापि भाट्टप्रघट्टम् । क्क द्वैताद्वैतवार्ता क्षपणकविवृतिः क्वापि पाषण्डषण्ड- ध्वान्तध्वंसकभानोर्जयति यतिपतेः शारदापीठवासे ॥ ९ ॥ ततो दिविषदध्वनि त्वरितमध्यराशावली- धुरन्धरसमीरितत्रिदशपाणिकोणाहतः । अरुन्द्ध हरिदन्तरं स्वरभरैभ्रमत्सिन्धुभि- घनाघनघनारवप्रथमबन्धुभिर्दुन्दुभिः ॥ ९१॥ कचभरवहनं पुलोमजायाः कतिचिदहान्यपगर्भकं यथा स्यात् । गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्षतोऽभ्यवर्षन् ।। इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं निजमतगुरुतायै नो पुनर्मानहेतोः । कतिचन विनिवेश्याथर्ण्यशृङ्गाश्रमादौ मुनिरथ बदरी स प्राप कैश्चित्स्वशिष्यैः ॥ ९३ ॥ दिवसान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्रनिष्ठितेभ्यः । कृपयोपदिशन् स्वसूत्रभाष्यं विजितत्याजितसर्वदर्शनेभ्यः ॥ ९४ ॥ नितरां यतिराडुडुराजकरप्रकरप्रचुरप्रसरस्वयशाः । स्वमयं समयं गमयन् रमयन् हृदयं सदयं सुधियां शुशुमे ॥ ९५ ॥ एवंप्रकारैः कलिकल्मषनैः शिवावतारस्य शुभैश्चरित्रैः। द्वात्रिंशदत्युज्ज्लकीर्तिराशेः समा व्यतीयुः ...

श्रीमच्छङ्करदिग्विजयः - श्रीमदाचार्याणां शारदापीठवासवर्णनम्-223

सयो विधोतितासौ विपथविमर्थनैर्मुक्तिपद्याऽनवधा श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ॥ ९७॥ हन्ताऽऽशोभियशोभरस्त्रिजगतीमन्दारकुन्देन्दुभा- मुक्ताहारपटीरहीरविहरनीहारतारानिमः। कारुण्यामृतनिझरैः सुकृतिनां दैन्यानलः शून्यतां नीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ॥ आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः । भक्ताः स्वेप्सितमुक्तिमुक्तिकलनोपायैः कृतार्थीकृता भिक्षुक्ष्मापतिना किमन्यदधुना सौजन्यमातन्यताम् ॥९९॥ पारिकाङ्क्षीश्वरोऽप्यापदुद्धारकं सेवमानातुलस्वस्तिविस्तारकम् । पापदावानलातापसंहारकं योगिवृन्दाधिपः प्राप केदारकम् ॥१०॥ तत्रातिशीतार्दितशिष्यसङ्घसंरक्षणायातुलितप्रभावः। तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकरप्रधानः ॥ १०१॥ कर्मन्दिवृन्दपतिना गिरिशोऽर्थितः सन् संतप्तवारिलहरीं स्वपदारविन्दात् । प्रावर्तयत्प्रथयती यतिनाथकीर्ति याऽद्यापि तत्र समुदश्चति तप्ततोया ॥ इति कृतसुरकार्य नेतुमाजग्मुरेनं रजतशिखरिशृङ्ग तुङ्गमीशावतारम् । विधिशतमखचन्द्रोपेन्द्रवाय्वग्निपूर्वाः सुरनिकरवरेण्याः सर्षिसङ्घाः ससिद्धाः ॥ १३ ॥ विद्युदल्लीनियुतसम...

श्रीमच्छङ्करदिग्विजयः- श्रीमदाचार्याणां शारदापीठवासवर्णनम् 224

 श्रीमदाचार्याणां शारदापीठवासवर्णनम् । २०५ स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेष मन्दारोत्थैः कुसुमनिचौरब्रुवन्नर्चयन्तः ॥ १०४ ॥ भवानाद्यो देवः कवलितविषः कामदहनः पुरारातिविश्वप्रभवलयहेतुस्त्रिनयनः । यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुना तदायाहि स्वर्ग सपदि गिरिशास्मत्प्रियकृते ॥१५॥ उन्मीलद्विनयप्रधानसुमनोवाक्यावसाने महा- देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति । शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तत्क्षणा- दुशा शारदवारिदुग्धवरटाहकारहुंकारकृत् ॥ १०६ ॥ इन्द्रोपेन्द्रप्रधानैत्रिदशपरिवृद्वैः स्तूयमानः प्रसून- दिव्यैरभ्यय॑मानः सरसिरुहभुवा दत्तहस्तावलम्बः । आरुह्योक्षाणमग्न्यं प्रकटितसुजटाजूटचन्द्रावतंसः शृण्वन्नालोकशब्दं समुदितमृषिभिर्धाम नै प्रतस्थे । इति श्रीमाधवीये तच्छारदापीठवासगः । संक्षेपशङ्करजये सर्गः पूर्णोऽपि षोडशः॥ (आदितः श्लोकाः १८४३) इति श्रीमद्विद्यारण्य विरचित: श्रीमच्छङ्करदिग्विजयः समाप्तः